Book Title: SubhashitSangraha Samucchay
Author(s): Nilanjana Shah
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 120
________________ सूक्तसंग्रह ૧૧૩ २००. प्राप्याप्यक्षं निधिं वा त्यजति जडमतिनिन्द्यभिक्षाभिलाषी सद्धर्मं यो न कुर्यादसुलभनुभवं प्राप्य कृच्छ्रात्सुखैषी ॥१९७॥ १९८. स्थाल्यां वैदूर्यमय्यां पचति तिलखलं चान्दनैरिन्धनोधैः । सौवर्णैर्लो( [ )गलागैर्विलिखति धरणीमर्कतूलस्य हेतोः । छित्त्वा कर्पूरखण्डं धृतिमिह कुरुते कोद्रवाणां समन्तात् प्राप्यैनां कर्मभूमी न चरति मतिमान् यस्तपो मन्दभाग्यः ॥१९८॥ १९९. अधोऽधः पश्यतः कस्य महिमा नोपजायते । उपर्युपरि पश्यतः सर्व एव दरिद्रति ॥१९९॥ तपसः शयनस्यापि राज्यस्य विभवस्य च । जीवितस्य हि सौमित्रे ! भोजनं प्रथमं फलम् ॥२००॥ निःस्पृहो नाधिकारी स्यात् नाऽकामी मण्डनप्रियः । नाऽविदग्धः प्रियं ब्रूयात् स्फुटवक्ता न वञ्चकः ॥२०१॥ २०२. अपमानं पुरस्कृत्य मानं कृत्वा च पृष्टतः । स्वार्थं समुद्धरेत् प्राज्ञः स्वार्थभ्रंशो हि मूर्खता ॥२०२॥ २०३. प्रभोः क्षान्ति स्त्रियां लज्जा शौर्यं शस्त्रोपजीविनाम् । विभूषणमिति प्राहुर्वैराग्यं च तपस्विनाम् ॥२०३॥ २०४. इह हसति सतालं कान्तया सार्धमेकः पर इह हि सदु:खं रोदिति क्षामकण्ठः । ललितगतिरिहाऽन्यो नृत्यति प्रीतियोगादिति विविधविचित्रो हन्त ! संसारमार्गः ॥२०४॥ आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धीकृतं तस्यार्धस्य कदाचिदर्धमधिकं वृद्धत्व-बाल्ये गतम् । शेषं व्याधि-वियोग-रोगसहितैः सेवादिभिर्नीयते जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ? ॥२०५॥ २०६. संघः सद्गुणसंघसंगतिगुरुः संघो जिनैर्वन्दितः संघः शासनवृत्तिहेतुरसकृत् संघः सतां मुक्तिदः । तद्भक्त्या विहितं भुजार्जितधनैः संघस्य यैः पूजनं किं तैर्नाम न पूजितं सुकृतिभिः किं किं न लब्धं फलम् ? ॥२०६॥ २०५. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138