________________
૧૧૧
सूक्तसंग्रह १७३. राज्यं च सम्पदो भोगाः कुले जन्म सुरूपता ।
पाण्डित्यमायुरारोग्यं धर्मस्यैतत्फलं विदुः ॥१७३।। १७४. रणे वने शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा ।
सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुराकृतानि ॥१७४॥ १७५. दारिद्यनाशनं दानं शीलं दुर्गतिनाशनम् ।।
अज्ञाननाशिनी प्रज्ञा भावना भवनाशिनी ॥१७५॥ १७६. क्रमेण शैलः सलिलेन भिद्यते क्रमेण वाल्मीकशिखाऽभिवर्धते ।
क्रमेण विद्या विनयेन गृह्यते क्रमेण मोक्षस्तपसाऽधिगम्यते ॥१७६॥ १७७. वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह ।
न मूर्खजनसम्पर्कः सुरेन्द्रभवनेष्वपि ॥१७७॥ १७८. त्यक्त्वा जीर्णमयं कायं लभते च नवं वपुः ।
संसारे कृतपुण्यस्य मृत्युरेव रसायनम् ॥१७८॥ १७९. नो दृष्टं भुवने शशाङ्कसदृशं शुद्ध जिनस्यालयं
नो शास्त्रं विदितं प्रबोधजनकं भव्याम्बुजानां प्रियम् । नो दत्तं मुनिपुङ्गवाय सततं दानं मया भक्तितः
कालोऽयं खलु याति पापमनसो नो साधितं किञ्चन ॥१७९॥ १८०. धर्मे मतिर्भवतु किं बहुना श्रुतेन जीवे दया भवतु किं बहुभिः प्रदानैः । शान्तं मनो भवतु किं कुजनैरतुष्टैरारोग्यमस्तु विभवेन चलेन किं वा ?
॥१८०॥ १८१. स धर्मो नास्ति नाधर्मस्तत्सुखं यत्र नाऽसुखम् ।
तज्ज्ञानं यत्र नाऽज्ञानं सा गतिर्यत्र नाऽऽगतिः ॥१८१॥ १८२. धर्मस्य कानि लिङ्गानि दमः क्षान्तिरहिंस्रता ।
तपो दानं च शीलं च योगो वैराग्यमेव च ॥१८२॥ १८३. क्षीयन्ते सर्वदानानि यज्ञ-होम-बलिक्रियाः ।
न क्षीयते महादानमभयं सर्वदेहिनाम् ॥१८३॥ १८४. मानो धनं करौ शस्त्रं सहायो यस्य पौरुषम् ।
चेतो मन्त्री गुणो वर्म स धात्राऽपि न जीयते ॥१८४॥ १८५. [वि.]नमत्युन्नतिहेतोर्जीवनहेतोर्विमुञ्चति प्राणान् ।
दुःखीयति सुखहेतोः को मूढः सेवकादन्यः ? ॥१८५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org