________________
૧૧૦
सुभाषितसंग्रहसमुच्चय १६०. अशासितारं च गुरुं मन्दस्नेहं च भ्रातरम् ।
अदातारं च भर्तारं जनस्थानेषु स्थापयेत् ॥१६०॥ १६१. धनहीनो न हीनस्तु धनं वा कस्य निश्चलम् ।
विद्याहीनश्च यः कश्चित् स हीनः सर्ववस्तुषु ॥१६१॥ १६२. स जीवति गुणा यस्य यस्य धर्मः स जीवति ।
गुणधर्मविहीनस्य जीवतः किं प्रयोजनम् ॥१६२॥ १६३. नात्यन्तसरलैर्भाव्यं गत्वा पश्य वनस्पतीन् ।
सरलास्तत्र छिद्यन्ते कुब्जा: तिष्ठन्ति पादपाः ॥१६३॥ १६४. अधमा धनमिच्छन्ति धनमानं च मध्यमाः ।
उत्तमा मानमिच्छन्ति मानं हि महतां धनम् ॥१६४॥ १६५.
दुर्जनः प्रियवादी च नैव विश्वासकारणम् ।
मधुर्व( व )सति जिह्वाग्रे हृदये( हदि )हालाहलं विषम् ॥१६५॥ १६६. कृपणेन समो दाता न भूतो न भविष्यति ।
अस्पृशन्नेव वित्तानि यः परेभ्यः प्रयच्छति ॥१६६॥ १६७. हिंसामङ्गिषु मा कृथा वद गिरं सत्यां न पापावहां
स्तेयं वर्जय सन(र्व)था परवधूसङ्गं विमुञ्चादरात् । कविच्छापरिमाणमिष्टविभवे क्रोधादिदोषांस्त्यज
प्रीति जैनमते विधेहि नितरां धर्मे यदीच्छास्ति ते ॥१६७॥ १६८. प्राणान्न हिंस्यान्न पिबेच्च मद्यं वदेच्च सत्यं न हरेत्परस्वम् ।
परस्य भार्यां मनसाऽपि नेच्छेत् स्वर्गं यदीच्छेद् गृहवद् प्रवेष्टुम् ॥१६८॥ १६९. क्षान्तिसमं तपो नास्ति सन्तोषान्न परं सुखम् ।
नास्ति विद्यासमं दानं नास्ति धर्मो दयासमः ॥१६९॥ १७०. यो धर्मशीलो जितमानरोषो विद्याविनीतो न परोपतापी ।
स्वदारतुष्टः परदारवर्जी न तस्य लोके भयमस्ति किञ्चित् ॥१७०॥ १७१. नाहारं चिन्तयेत् प्राज्ञो धर्ममेकं हि चिन्तयेत् ।
आहारो हि मनुष्याणां जन्मना सह जायते ॥१७१॥ १७२. दानेन भोगान् दयया च रूपं ध्यानेन मोक्षं तपसेष्टसिद्धिम् ।
सत्येन वाक्यं प्रशमेन पूजां वृत्तेन जन्माग्यमुपैति मर्त्यः ॥१७२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org