Book Title: SubhashitSangraha Samucchay
Author(s): Nilanjana Shah
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 111
________________ १०४ ८२. ८३. ८४. ८५. ८६. ८७. ८८. ८९. ९०. ९१. ९२. ९३. ९४. ९५. विनयं राजपुत्रेभ्यः पण्डितेभ्यः सुभाषितम् । अनृतं द्यूतकारेभ्यः स्त्रीभ्यः शिक्षेत कैतवम् ॥८२॥ सद्भावो नास्ति वेश्यानां स्थिरता नास्ति सम्पदाम् । विवेको नास्ति मूर्खाणां विश्वासो नास्ति कर्मणाम् ॥८३॥ षट्पदो पुष्पमध्यस्थो यथा सारं समुद्धरेत् । तथा सर्वेषु कार्येषु सारं गृह्णाति बुद्धिमान् ॥८४॥ भोजनस्य घृतं सारं प्राणिनां नवयौवनम् । अर्थस्य दानसम्पत्तिर्वाचां सत्यं क्षमा प्रभोः ॥ ८५ ॥ नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । नाऽन्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥८६॥ उद्यमादनिवृत्तस्य ससहायस्य धीमतः । छायेवाऽनुगता तस्य नित्यं श्रीः सहचारिणी ॥८७॥ सुभाषितसंग्रहसमुच्चय नात्यन्तमृदुना भाव्यं मृदुः सर्वत्र बाध्यते । निःसारां कदलीं दृष्ट्वा छेत्तुं को न समुद्यतः ॥८८॥ भिक्षुर्विलासी नि(वि ? ) धनश्च कामी वृद्धो विटः प्रव्रजितश्च मूर्खः । वेश्याङ्गना रूपविलासहीना प्रजापतेर्दुश्चरितानि पञ्च ॥८९॥ अनायके न स्थातव्यं सततं भूतिमिच्छता । स्त्रीनायकं परित्यज्य बालनायकसंयुतम् ॥९०॥ अर्थातुराणां न सुन्न बन्धुः कामातुराणां न भयं न लज्जा । चिन्तातुराणां न सुखं न निद्रा क्षुधातुराणां न वपुर्न तेजः ॥ ९१ ॥ पाण्डित्ये गणिते शिल्पे तथा सर्वकलासु च । धर्मार्थकाममोक्षेषु सर्वेषु कुशलो भवेत् ॥ १२ ॥ अनभ्यासे विषं शास्त्रमजीर्णे भोजनं विषम् । दरिद्रस्य विषं गोष्ठी वृद्धस्य तरुणी विषम् ॥९३॥ देवताराधने दाने विद्याभ्यासे सदौषधे । क्षमायां परमो यत्नः कर्तव्यो विजिगीषुणा ॥ ९४ ॥ दाने तपसि शौर्ये वा विज्ञाने विनये नये । विस्मयो हि न कर्तव्यो बहुरत्ना वसुन्धरा ॥ ९५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138