________________
૧૦૨
५७.
५८.
५९.
६०.
६१.
६२.
६३.
६४.
६५.
६६.
६७.
६८.
६४.
देवे द्विजे तथा शास्त्रे दैवज्ञे भैषजे गुरौ । यादृशी या (जा) यते भक्तिः सिद्धिर्भवति तादृशी ॥५८॥
सर्वत्र मुखरचपलाः प्रभवन्ति [हि] साधु सम्मत्ता ( ता ) गुणिनः । तिष्ठन्ति तोयराशेरुपरि तरङ्गास्तले मणयः ॥५९॥
सुभाषितसंग्रहसमुच्चय
गलगजिं विनाप्युच्चैर्लभन्ते गुणिनः फलम् ।
न जल्पति मणिः किञ्चित् विक्रयं याति कोटिभिः ॥६०॥ सुकविश्रमानभिज्ञे श्रोतरि वचनानि विफला (लतां ) यान्ति । भर्त्तरि मुग्धे प्रौढप्रमदारतविलसितानीव ॥ ६१ ॥
श्रुतरत्नमेव धार्यं यदि भवति विशुद्धवाग्गुणग्रथितम् । विकिरति यशांसि भुवने निधनेऽप्यनुयाति शाश्वतिकम् ॥६२॥ किं कुर्मः किमुपालम्भे यत्रेदमसमञ्जसम् । काकिण्यपि न सिंहस्य मूल्यं कोटिश्च दन्तिनः ॥६३॥
उद्युक्तस्याप्रमत्तस्य ह्यनागतविधायिनः । दिशो निरीक्षमाणस्य जाग्रतो नास्ति नुर्भयम् ॥६४॥ जाई जयंमि गरुया जाईए तह य उत्तमा लच्छी । [ लच्छी ] ए गुणा गुरुया तिण्णिवि लहुया विवेगस्स ॥ ६५ ॥ काश (स) श्वासातिसारो ज्वरपिटकपिटीकुष्ठकोष्ठप्रमो (मे) हान् मूत्रग्राहोदरार्शः श्वयथुगलशिरः कर्णनासाक्षिरोगम् । ये चान्ये वातपित्तक्षतजकफकृता व्याधयः सन्ति जन्तोस्तानप्यभ्यासयोगादपनयति पयः पीतमन्ते निशायाः ॥ ६६ ॥
या( ये ) वर्धिताः करिकपोलमदेन भृङ्गाः प्रोत्फुल्लपङ्कजरजः सुरभीकृताङ्गाः । ते साम्प्रतं प्रतिदिनं गमयन्ति कालं निम्बेषु चाऽर्ककुसुमेषु च दैवयोगात्
॥६७॥
अभिमानं धनं येषां चिरं जीवन्तु ते नराः ।
अभिमानेन दीनानां किं धनेन किमायुषा ? ॥६८॥
धृतिभावनया दुःखं सत्त्वभावनया [रुषम् ] | [ तपोभावनया ? ] कर्म नाशं याति न संशयः ॥६९॥
जाति: जगति गुर्वी जात्या तथा च उत्तमा लक्ष्मीः । लक्ष्म्या गुणाः गुरुकाः त्रयोऽपि लघुका विवेकस्य ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org