________________
सूक्तसंग्रह
१०3
६९.
७०.
७२.
७३.
७४.
निजगुणगणसौभाग्यं परगुणपरिवर्णनेन कथयन्ति । सन्तो विचित्रचरिता नम्रतया चोन्नति यान्ति ॥६९॥ उप(पा)येऽपि हि नोपकृतं स्वबन्धुवर्गस्य येन पुरुषेण । तस्य कुलजन्म विफलं जलवर्जितमेघरवतुल्यम् ॥७॥ ये शूराः समरे महाकविसभामध्येऽपि ये वाग्मिनो ये मानकधना मनोरमतया ये कामकीर्तिच्छिदः । तेऽप्याज्ञां शिरसा वहन्ति सततं तस्य प्रसन्नानना: यो लक्ष्म्या नवमीलनीरजदृशा विश्रब्धमालोकितः ॥७१॥ तृणवद् गणयति जगदपि नीचो यत्किञ्चिदपि पदं प्राप्य । वृतिमारूढो दिनकरमुत्पश्यो हसति कृकलासः ॥७२॥ पद्मिन्यो राजहंसाश्च जीमूताः सुतपस्विनः । यं देशमधितिष्ठन्ति स देशः श्रियमश्नुते ॥७३॥ उदये कुरुष्व धीधन ! तथोपकारं जनस्य सकलस्य । प्रत्युपकाराय यथा मनोरथा हदि विलीयन्ते ॥७४॥ प्रारभते न हि सुजनस्त्रीवर्गशून्यं प्रयोजनं किमपि । प्रारब्धं तु कथञ्चित् प्राणकोटि ध्रुवं नयति ॥५॥ सर्वेषामेव जन्तूनां वेश्या भवति दुःखिता । अस्तंगते दिवानाथे को मे भर्ता भविष्यति ॥६॥ सर्वनाशे समुत्पन्ने त्वर्द्ध त्यजति पण्डितः । अर्द्धन कुरुते कार्यं सर्वनाशो हि दुस्तरः ॥७७॥ ईप्सितं मनसा सर्वं कस्य सम्पद्यते सुखम् । दैवायत्तं जगत्सर्वं तस्मात्सन्तोषमाश्रयेत् ।।७८॥ सन्तोषस्त्रिषु कर्त्तव्यः स्मरादौ भोजने धने । त्रिषु चैव न कर्त्तव्यः दानाध्ययनकर्मसु ॥७९॥ असन्तुष्टा द्विजा नष्टाः सन्तोषेण तु पार्थिवाः । सलज्जा गणिका नष्टा निर्लज्जाश्च कुलस्त्रियः ॥८॥ आलस्यं नारभेत प्राज्ञोऽकार्यं नैव चिन्तयेत् । अदृष्टं न तु प्रजल्पेदभक्ष्यं नैव भक्षयेत् ॥८१॥
८१.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org