Book Title: SubhashitSangraha Samucchay
Author(s): Nilanjana Shah
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 104
________________ सूक्तसंग्रह ९. १०. ११. १२. १३. १४. १५. १६. १७. १८. १९. २०. अनुपहसितवृद्धधियामनभिलषितपरकलत्रशुचिमनसाम् । अनवज्ञातगुरूणां यौवनमुपयाति पुण्यवताम् ॥९॥ स्थानप्रच्युतिरुन्नतिं लघयते नैवोत्तमानां क्वचित् प्रायः श्लाघ्यतरा भवन्ति गुणिनः स्थानान्तरावासिषु । वृक्षाग्रे श्रियमातनोति न तथा प्रैयङ्गवी मञ्जरी कर्णान्तालकवल्लरी विरचिता वक्त्रे तरुण्या यथा ॥ १० ॥ का श्रीः श्रोण्यामजस्त्रं स्त्रवदुदरदरीपूरि सान्द्रद्रवायां का शोभा भूरिमांसोद्भवगडुषु निपातोन्मुखेषु स्तनेषु । का वा लीला सुलीलाचलितजललवालोलकेष्वीक्षणेषु स्त्रीणां किं वास्ति रम्यं वदत बुधजना ! यत्र सक्तिं विदधाः ( विधत्तः) ॥११॥ आर्यजन वर्जितानां मूर्खाणां लोक- समयबाह्यानाम् । पार्श्वे न स्थातव्यं निरङ्कुशानामिव गजानाम् ॥१२॥ सत्यार्जवहृदयानां किं वञ्चयितव्यमस्ति साधूनाम् । ये स्वहृदयानुमानाः परहृदयेष्वेन्ति विश्वाना( स ) म् ( ? ) ॥१३॥ भवति च न भवति च धनं कुलीनता दुर्लभा मनुष्यस्य । प्राप्य च कुलपुत्रत्वं चारित्राढ्येन भवितव्यम् ॥१४॥ आलस्यं त्यक्तव्यं लौल्यं लोभः परापवादश्च । अस्थानेषु च कोपस्तथाऽभिमानश्च पुरुषेण ॥ १५ ॥ यो व्यसने न व्यथते न विस्मयं याति विभवमासाद्य । अभ्यर्थितः परार्थेष्वचलमतिः स्यात् स खलु धीरः ॥ १६ ॥ को देश (य) ति पन्थानमितश्चेतश्च धावताम् । स्वच्छन्दानां च पयसां प्राक्तनानां च कर्मणाम् ॥१७॥ असारोऽपि हि संसार: सास्वानिव लक्ष्यते । क्षीरोदजलकल्लोललोललोचनयानया ॥ १८ ॥ आवर्जितेऽपि दातरि न नृपे न फलमस्ति भाग्यहीनस्य । विततायामपि योनौ वृषणौ बहिरेव लम्बेते ॥ १९॥ आदाय वरि( वारि) परितः सरितां शतेभ्यः किं नाम साधितमनेन महार्णवेन । क्षारीकृतं च वडवावदने हुतं च पातालकुहि (क्षि) कुहरेषु निवेशितं च ॥२०॥ Jain Education International ૯૭ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138