Book Title: SubhashitSangraha Samucchay
Author(s): Nilanjana Shah
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
सूक्तसंग्रह
३३.
३४.
३५.
३६.
३७.
३८.
३९.
४०.
४१.
४२.
४३.
४४.
४५.
३३.
कीरन्ति जाई जोव्वणमएण अवियारिऊण कज्जाई । वयपरिणामे भरियाई ताइं हियए खुडुक्कन्ति ॥३४॥ इदं पुण्यमिदं पापमित्येतस्मिन् पदद्वये । आचण्डालं मनुष्याणां स्वल्पं शास्त्रप्रयोजनम् ॥३५॥ घृतादष्टगुणं तैलं तैलादष्टगुणं पयः । पयसोऽष्टगुणं मांसं मांसादष्टगुणा धृतिः ॥३६॥
न गजैर्न [व] राहैः स्यात् न व्याघ्रैर्न च वाजिभिः । अजापुत्रं बलिं दद्यात् दैवं दुर्बलघातकः (कम् ) ॥३७॥ कालो(काले ) कलौ राजनि चार्थलुब्धे द्रव्येण किं रक्षत जीवितानि । नन्वेष लाभो यदि सौनिकेन मुच्येत मेषे( षो ) गतकर्णरोमा ॥ ३८ ॥ कपिलानां सहस्त्रं तु यो द्विजेभ्यः प्रयच्छति ।
एकस्य जीवितं दद्यात् कलां न ( ना ) घेति षोडशीम् ॥३९॥ आदानगर्वसंग्रहभयानुकम्पासु लज्जया दानम् । उपकारो धर्मार्थं दानं धर्मार्थं (य) न भयार्थम् ॥४०॥ इन्द्रियाणि पशुं कृत्वा वेदीं कृत्वा तपोमयीम् । अहिंसामाहुतिं कृत्वा त्वात्मयज्ञं यजाम्यहम् ॥४१॥ ये स्त्रीसंघोरुसंस्पृष्टाः कामगृध्नाःश्च ते द्विजाः । ये च रेतोभगस्पृष्टास्तेऽपि शूद्रा युधिष्ठिर ! ॥ ४२॥ यदि जलेन विशुध्यन्ति वर्णाचेह चतुर्विधाः । कैवर्ता रजकाचैव देवलोकं व्रजन्ति ते ॥ ४३ ॥
मनो विशुद्धं पुरुषस्य तीर्थं सर्वक्षमा इन्द्रियनिग्रहश्च । एतानि तीर्थानि शरीरजानि स्वर्गस्य मार्गं प्रतिदर्शयन्ति ॥ ४४ ॥ अप्रकटीकृतशक्तिः शक्तोऽपि नरस्तिरस्कृतिं ल[भ]ते । निवसन्नन्तर्दारुणि लङ्घ्यो वह्निर्न तु ज्वलितः ॥ ४५ ॥ सर्वस्य हि मनो लोके मैथुनाय प्रवर्तते । तच्च लाभात् भयाद्धैर्याद् विवेकाच्च निवर्तते ॥४६॥
क्रियन्ते यानि यौवनमदेन अविचार्य कार्याणि । वयः परिणामे भृतानि तानि हृदये दुःखायन्ते ॥
Jain Education International
૯૯
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138