Book Title: SubhashitSangraha Samucchay
Author(s): Nilanjana Shah
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 90
________________ सुभाषितरत्नकोश नासाग्रे नयनं यदेतदपरं यच्चैकनिष्ठं मनः । मौनं चेदमिदं च शून्यमखिलं यद्विश्वमाभाति ते तद् ब्रूयाः सखि ! योगिनी किमसि भोः ! किं वा वियोगिन्यसि ? ॥९०॥ १५४. निशा वा वृष्टिर्वा तिमिरमथवा गर्जिरथवा asar पङ्को वाsभिनवसरितां श्रेणिरथवा । यथेष्टं चेष्टन्ते यदि न दयितः प्रेमविमुखः प्रदीपः स्नेहाढ्यो न खलु शलभौघैर्विरमति ॥९१॥ १५५. असावहं लोहमयी स यस्या जातः पति प्रस्तर एव कान्तः । आकर्षकद्रावकचुम्बकानां नैकोऽप्यसौ भ्रामक इत्यवैमि ॥९२॥ दूतीवचनानि १५६. विलिम्पत्येतस्मिन्मलयजरसेनेव महसा दिशां चक्रं चन्द्रे सुकृतमय ! तस्या मृगदृशः । दृशोर्बाष्प: पाणौ वदनमसवः कण्ठकुहरे हृदि त्वं होः पृष्ठे वचसि च गुणा एव भवतः ॥९३॥ १५७. सखीं भिक्षां याचे तव नतशिरास्त्वामियमहं न चेदस्ति प्रेमा तदपि कुरु कारुण्यकणिकाम् । अवस्था सा तस्याः सुकृतमय ! यस्यां किमपरं प्रमोहो विश्रामस्त्वमथ शरणं वा प्रतिकृतिः ॥ ९४ ॥ ॥९५॥ १५८. १५९. अंशा ( सा ) कृष्टदुकूलया सरभसं गूढौ भुजाभ्यां स्तनावाकृष्टे जघनांशुके कृतमधःसंसक्तमूरुद्वयम् । नाभीमूलनिबद्धचक्षुषि मयि व्रीडानताङ्ग्या तया दीपः पूत्कृतिवातकम्पितशिखः कर्णोत्पलेनाऽऽहतः ॥ ९६ ॥ १६०. प्रेमासङ्गि च भङ्गि च प्रतिवचोऽप्युक्तं च गुप्तं तथा यत्नाद्याचितमाननप्रतिसमाधाने च हाने च धीः । इत्यन्यो मधुरः स कोऽपि शिशुना( ता ? ) तारुण्ययोरन्तरे वर्तिष्णोर्मृगचक्षुषो विजयते वैदग्ध्यमुग्धो रसः ॥९७॥ १५८. लेखनस्य लुप्सत्वादवाच्यम् । Jain Education International ८३ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138