Book Title: SubhashitSangraha Samucchay
Author(s): Nilanjana Shah
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 89
________________ ૮૨ विरहिण: १४७. पश्यामि तामित इतश्च पुरश्च पश्चादन्तर्बहिः परित एव विवर्तमानाम् । उद्बुद्धमुग्धकनकाब्जनिभं वहन्ती व्यासङ्गतिर्यगपवर्तितदृष्टि वक्त्रम् ॥८४ [ मालतीमाधव १.४० ] १४८. अलमतिचपलत्वात्स्वप्नमायोपमत्वात् परिणतिविरसत्वात् सङ्गमेन प्रियायाः । इति यदि शतकृत्वस्तत्त्वमालोचयाम स्तदपि न हरिणाक्ष विस्मरत्यन्तरात्मा ॥ ८५ ॥ १४९. चित्रं चित्रसुवर्णकारकमुखोद्गीर्णैर्मरुद्भिर्मुहुर्मच्चेतः शकटीमनोजशिखिनि प्रोच्चैः समुद्दीपिते । यत्क्षिप्तापि न दह्यते मृदुरपि प्रेयस्यहो वेधसा सृष्टा तत् खलु सार्धषोडशकषोत्तीर्णैः सुवर्णैरियम् ॥८६॥ १५०. अमी हेलोन्मेषव्यसनिषु पलाशेषु परितः पिबन्ति स्वच्छन्दं मधु मधुलिहो माद्यति जनः । अयं च प्रत्यग्रं दशति सहकारं परभृतो मदीयं मर्मान्तं दलयति क एष व्यतिकरः ॥८७॥ अथ विरहिण्यः १५१. प्रीत्या स्वस्तिपदं विलोकितवती स्थानं श्रुतं तुष्टया यच्चायातमनुक्रमेण पुरतस्तत्तावकं नायकम् । तन्व्या सम्मदनिर्भरेण मनसा तद्वाचयन्त्या मुहुः न प्राप्तो घनबाष्पपूरितदृशालेखेऽपि कण्ठग्रहः ॥८८॥ १५२. देवेन प्रथमं जितोऽसि शशभृल्लेखाभृताऽनन्तरं सुभाषितसंग्रहसमुच्चय बुद्धेनोद्धतबुद्धिना स्मर ! ततः पान्थेन कान्तेन मे । त्यक्त्वा तान् बत हंसि ! मामतिकृशां बालामनाथां स्त्रियं धिक् त्वां धिक् तव पौरुषं धिगुदयं धिक्कार्मुकं धिग्छरान् ॥८९॥ सखीसमालोचनम् १५३. आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138