Book Title: SubhashitSangraha Samucchay
Author(s): Nilanjana Shah
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 87
________________ सुभाषितसंग्रहसमुच्चय १३३. समस्तं विज्ञाय स्मरनरपते राज्यमसमं वरं चक्षुःकल्ले कथयितुमगात्सत्वरमिव । प्रयाणं बाल्यस्य प्रतिपदमभूद्विग्रहभरः परिस्पन्दो वाचामथ च कुचयोः सन्धिरभवत् ॥७०॥ गद्यविद्याधरत्रिलोचनस्य । १३४. द्वित्रैः पाणिसरोरुहं त्रिचतुरैर्धम्मिल्लमाल्यस्त्रजः कण्ठान्मौक्तिकवल्लरी तदनु च क्षिप्ता पदैः पञ्चषैः । हित्वा भारपरम्परामतिजवात्त्वां देव ! संवीक्षितुं तन्वङ्गी निरुपायमध्वनि मुहुः श्रोणीभरं निन्दति ॥७१॥ १३५. सा वार्यते परिजनैरजिराधिरूढभूतप्रसूनकलिकामपनीय यावत् । अत्रान्तरे स्थविरकीरनिवारितानामभ्युद्गतः कलकलो गृहकोकिलानाम् ॥७२॥ . १३६. ग्रीष्मे गाढाभितापाकुलपथिकचये चन्दनस्थासकाङ्का उद्वृत्तैस्तालवृन्तैः सततपरिहतप्राज्यघर्माम्भसश्च । कर्पूरस्फारफालीकलितकिसलयप्रस्तरोद्दामलीला नाधन्याः क्रीडयन्ते वरयुवतिजनैर्यत्र धारागृहेषु ॥७३॥ १३७. भस्त्रागोलप्रतिसमपयोवाहवान्तैर्मरुद्भिः पान्थस्त्रीणां धमति हृदयाधारमग्नि त्रियामा । भास्वत्कार्तस्वरकणरुचो भान्ति खद्योतवृन्द व्याजादन्धे तमसि च बहिर्वृत्तयो विस्फुलिङ्गाः ॥७४॥ १३८. यथा व्योम्नो रन्धं चलजलदधूमः स्थगयति स्फुलिङ्गायन्तेऽमी झगिति च यथा कीटमणयः । यथा विद्युज्ज्वालोल्लसनपरिपिङ्गाश्च ककुभस्तथा मन्ये लग्नः पथिकतरुषण्डे स्मरदवः ॥७५॥ उत्फुल्लन्मुचुकुन्द-कुन्द-लवलीपुष्पाञ्चितोद्यानभूहेमन्ते दयिताकुलाध्वगजन: सोऽयं समभ्यागतः । यस्मिन्सौधतलेषु धूपकलितेषूद्दामतूलीतले धन्याः कुङ्कमयोगरम्यतरुणीश्लेषोष्मणा शेरते ॥६॥ १४०. वेपन्ते कपयो भृशं कृशजडं गोजाविकं ग्लायतिं श्वाचुल्ली कुहरोदरं क्षणमधिक्षिप्तोऽपि नैवोज्झति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138