Book Title: SubhashitSangraha Samucchay
Author(s): Nilanjana Shah
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 88
________________ सुभाषितरत्नकोश शीतार्तिव्यसनातुरः पुनरयं दीनो जनः कूर्मवत् स्वान्यङ्गानि शरीर एव हि निजे निह्नोतुमाकांक्षति ॥७७॥ १४१. दृष्ट्वा रूपविलोकनानिमिषदृक् पान्थः प्रपापालिका निस्तोयां न गलन्तिकां कलयति प्रोद्भतभावान्तराम् । अम्भोऽपास्य कृतापराञ्जलिविधि( धे? )रस्यापि संवर्धते तल्लावण्यसुधौघपूर्णनयनस्था ग्रैष्मिकी काऽपि तृट् ॥७८॥ १४२. रहःसंकेतस्थो घनतरतमः पुञ्जपिहिते वृथोन्मेषं चक्षुर्मुहुरुपदधानः पथि पथि । षडत्कारादल्पादपि निभृतसम्प्राप्तरमणी भ्रमभ्राम्यद्बाहुर्दमदमिकयोत्ताम्यति युवा ॥७९॥ १४३. __ अम्भोजाक्ष्याः पुरवनलताधाम्नि संकेतभाज श्तोनाथे चिरयति भृशं मोहनिद्रां गतायाः । स्वच्छं नाभीहूदवलयितं काञ्चिरत्नांशुजालं तोयभ्रान्त्या पिबति हरिणी विस्मयं च प्रयाति ॥८॥ १४४. वयं बाल्ये डिम्भास्तरुणिमनि यून: परिणता वपीप्सामो वृद्धान् परिणयविधेस्तु स्थितिरियम् । त्वयाऽऽरब्धं जन्म क्षपयितुमपूर्वेण विधिना मनो गोत्रे पुत्रि ! क्वचिदपि सतीलाञ्छनमभूत् ॥८१॥ चन्द्रोदयः १४५. द्वावप्येतावभिनवजपापुष्पभासां निवासो तिष्ठत्यन्ते द्वयमपि वियन्मण्डलस्योपसन्ध्यम् । अस्तं को यात्युदयति च कः को रविः कः शशाङ्क: का च प्राची तदिह न वयं का प्रतीचीति विद्मः ॥८२॥ १४६. लक्ष्मीक्रीडातडागं रतिधवलगृहं दर्पणो दिग्वधूनां पुष्पं श्यामालतायास्त्रिभुवनजयिनो मन्मथस्यातपत्रम् । पिण्डीभूतं हरस्य स्मितममरसरित्पुण्डरीकं मृगाङ्को ज्योत्स्नापीयूषवापी जयति सितवृषस्तारका गोकुलस्य ॥८३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138