Book Title: SubhashitSangraha Samucchay
Author(s): Nilanjana Shah
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
सुभाषितसंग्रहसमुच्चय १६१. यदेतद्धन्यानामरसि तरुणीसङ्गमवशात्
किमप्याविर्भूतं पुलकमिदमाहुः किल जनाः । मतिस्त्वेषाऽस्माकं नवकुचतटीचुम्बकशिला
निवेशादाकृष्टः स्मरशरशलाकोत्कर इति ॥९८॥ १६२. ................... ॥१९॥ १६३. विततपृथुवरत्रातुल्यरूपैर्मयूखैः
कलश इव गरीयान् दिग्भिराकृष्यमाणः । कृतचटुलविहङ्गालापकोलाहलाभिजलनिधिजलमध्यादेष उत्तार्यतेऽर्क : ॥१०॥
अथ शान्तः १६४. न ग्लानिः सुरतैः प्रियाविरहजैः क्लेशो न दोषाक्षयै
रत्यन्ते विरतिर्न वाऽऽप कलहः प्रेम्णाऽपि नेा क्वचित् । इत्थं द्वन्द्वविवर्जितारतिमतः स्वात्मैकरामप्रियाः
यस्येहास्ति महामतेर्न स शचीभर्तुः पदं वाञ्छति ॥१०१॥ १६५. हारस्मेरनितम्बिनीकुचतटक्रीडारसोत्कण्ठितं
यत्कन्दर्पकथाकुतूहलभरभ्रान्तं ममाऽऽसीत् पुरा । तच्चेतः सुरवाहिनीवलयिनि प्रालेयशैलोपल
श्रेणीसुस्थितमीहते भव भवत्सेवाविलासोत्सवान् ॥१०२॥ १६६. आत्मज्ञानविवेकनिर्मलधियः कुर्वन्त्यहो दुष्करं
यन्मुञ्चन्त्युपभोगभांज्यपि धनान्येकान्ततो नि:स्पृहाः । न प्राप्तानि पुरा न संप्रति न च प्राप्तौ दृढप्रत्ययौ
वाञ्छामात्रपरिग्रहाण्यपि वयं त्यक्तुं न तानि क्षमाः ॥१०३॥ १६७. अजानन् दाहात्म्यं पतति शलभस्तत्र दहने
न मीनोऽयं ज्ञात्वा बडिशगतमश्नाति पिशितम् । विजानन्तोऽप्येते वयमिह विपज्जालजटिला
त्र मुञ्चामः कामानहह ! गहनो मोहमहिमा ॥१०४॥ १६८. आयुर्नीरतरङ्गभङ्गमिदं ज्ञात्वा सुखेनाऽऽस्यते
लक्ष्मीः स्वप्नविनश्वरेति सततं भोगेषु बद्धा रतिः । १६२. लेखनस्य लुप्तत्वादवाच्यम् ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org .
Loading... Page Navigation 1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138