SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ सुभाषितसंग्रहसमुच्चय १६१. यदेतद्धन्यानामरसि तरुणीसङ्गमवशात् किमप्याविर्भूतं पुलकमिदमाहुः किल जनाः । मतिस्त्वेषाऽस्माकं नवकुचतटीचुम्बकशिला निवेशादाकृष्टः स्मरशरशलाकोत्कर इति ॥९८॥ १६२. ................... ॥१९॥ १६३. विततपृथुवरत्रातुल्यरूपैर्मयूखैः कलश इव गरीयान् दिग्भिराकृष्यमाणः । कृतचटुलविहङ्गालापकोलाहलाभिजलनिधिजलमध्यादेष उत्तार्यतेऽर्क : ॥१०॥ अथ शान्तः १६४. न ग्लानिः सुरतैः प्रियाविरहजैः क्लेशो न दोषाक्षयै रत्यन्ते विरतिर्न वाऽऽप कलहः प्रेम्णाऽपि नेा क्वचित् । इत्थं द्वन्द्वविवर्जितारतिमतः स्वात्मैकरामप्रियाः यस्येहास्ति महामतेर्न स शचीभर्तुः पदं वाञ्छति ॥१०१॥ १६५. हारस्मेरनितम्बिनीकुचतटक्रीडारसोत्कण्ठितं यत्कन्दर्पकथाकुतूहलभरभ्रान्तं ममाऽऽसीत् पुरा । तच्चेतः सुरवाहिनीवलयिनि प्रालेयशैलोपल श्रेणीसुस्थितमीहते भव भवत्सेवाविलासोत्सवान् ॥१०२॥ १६६. आत्मज्ञानविवेकनिर्मलधियः कुर्वन्त्यहो दुष्करं यन्मुञ्चन्त्युपभोगभांज्यपि धनान्येकान्ततो नि:स्पृहाः । न प्राप्तानि पुरा न संप्रति न च प्राप्तौ दृढप्रत्ययौ वाञ्छामात्रपरिग्रहाण्यपि वयं त्यक्तुं न तानि क्षमाः ॥१०३॥ १६७. अजानन् दाहात्म्यं पतति शलभस्तत्र दहने न मीनोऽयं ज्ञात्वा बडिशगतमश्नाति पिशितम् । विजानन्तोऽप्येते वयमिह विपज्जालजटिला त्र मुञ्चामः कामानहह ! गहनो मोहमहिमा ॥१०४॥ १६८. आयुर्नीरतरङ्गभङ्गमिदं ज्ञात्वा सुखेनाऽऽस्यते लक्ष्मीः स्वप्नविनश्वरेति सततं भोगेषु बद्धा रतिः । १६२. लेखनस्य लुप्तत्वादवाच्यम् । - Jain Education International For Private & Personal Use Only www.jainelibrary.org .
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy