SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ सुभाषितरलकोश अम्भ्रस्तम्बविडम्बि यौवनमिति प्रेम्णाऽवगूढाः स्त्रियो यैरेवात्र विमुच्यते भवरसात्तैरैव बद्धो जनः ॥१०५॥ वदति हसति भुङ्क्ते याति गृह्णाति शेतेवहति पठति दत्ते याचते माद्यतीष्टे । प्रणमति नरिनर्ति प्राणिति क्रोशतीत्थं - बत विषयपिशाचग्रस्तदेहो मनुष्यः ॥१०६॥ १७०. उच्छ्वासावधयः प्राणाः स चोच्छ्वासः समीरणः । समीरणाच्चलं नान्यत्क्षणमप्यायुरद्भुतम् ॥१०७॥ १७१. श्लाघ्यं यत्तत्कृपणमनसां सप्तलोकाधिपत्यं या मृग्यन्ते तरलमतिभिः सिद्धयश्चाणिमाद्याः । एतत्सर्वं मदनदहन ! त्वत्पदप्राप्तिभाजां तत्त्वज्ञानामृतरसजुषां योगिनामन्तरायः ॥१०८॥ १७२. यल्लीलाकमलाहतौ प्रमुदितं यन्मन्मथस्यास्पदं यत्कान्तप्रणयापराधकलहे पर्याप्तकौतुहलम् । यत्प्रेमार्द्रवधूविलासतुलितभ्रूलास्यबद्धस्पृहं तच्चेतः स्मरवैरिभग्नसदनप्रान्तस्थिति वाञ्छति ॥१०९॥ इति शान्तः ॥ अथ जातिः १७३. पक्षावुत्क्षिप्य किञ्चिन्मसृणमुकुलितानम्रमूर्धग्रपिच्छ: कूजत्कण्ठार्द्धरुद्धस्वरमथ पुलकोड्डामरक्रोडदेशः । पश्चादग्रे च वल्गन्मनसिजदहनोद्रेकपर्याकुलाङ्ग स्तिर्यग् तिर्यग् प्रसर्पत्यनुनयचटुलो नीलकण्ठः स्वकान्ताम् ॥११०॥ १७४. आरोहत्यवरोहति क्षणमनुक्षामक्गत्कण्ठिका चूडाचञ्चलचञ्चकोटिघटनान्यञ्चन्मुखी पक्षिणीम् । गुञ्जन्मञ्जु रिंसुरेव चटको निष्यन्दपादद्वय न्यासाविष्कृतमन्मथः श्लथदलत्पक्षावलीसंहतिः ॥१११॥ १७५. विलासमसृणोल्लसन्मुसललोलदो:कन्दली परस्परपरिस्खलद्वलयनिस्वनोद्दन्तुराः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy