Book Title: SubhashitSangraha Samucchay
Author(s): Nilanjana Shah
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 93
________________ s सुभाषितसंग्रहसमुच्चय हरन्ति कलहुङ्कतिप्रसभकम्पितोरःस्तन त्रुटद्गमकसंकुलाः कलमकण्डनीगीतयः ॥११२॥ १७६. चञ्चच्चञ्चलचञ्चुवञ्चनचलच्चूडाग्रमुग्रं पत च्चक्राकारकरालकेसरसटास्फारस्फुरत्कन्धरम् । वारंवारमुदंहिलङ्घनघनप्रेङ्खन्नखच्छिन्नयोः कामं कुक्कुटयोर्युगं द्रुतपदक्रूरक्रमं युध्यति ॥११३॥ १७७. अङ्गठाग्रिमवक्रिताङ्गलिरधःपादार्धनीरुद्धभूः पाश्वोद्वेगकृतो निहत्य कफणिद्वन्द्वेन दंशान्मुहुः । न्यग्जानुद्वययन्त्रयन्त्रितघटीवक्त्रान्तरालस्खलद् धाराध्वानमनोरमं पथि पयो गां दोग्धि गोपालकः ॥११४॥ १७८. उत्प्लुत्य स्थितिमान् क्षणं स चकितः कोपादुदञ्चद्गलो चूत्कुर्वंश्च मुहुर्मुहुर्वलयितं लाङ्गलमान्दोलयन् । व्यादायास्यमुदग्रलोलरसनं दन्तैः कटत्कारिभि हात्यस्तचलेक्षणो भ्रमिवशात् कौलेयको दंशिकाः ॥११५॥ १७९. शैलैर्बन्धयति स्म वानरहतैर्वाल्मीकिरम्भोनिधि व्यासः पार्थशरैस्तथापि न तयोरत्युक्तिरुद्भाव्यते । वस्तु प्रस्तुतमेव किञ्चन वयं ब्रूमस्तथाप्युच्चकै र्लोकोऽयं हसति प्रसारितकरस्तुभ्यं प्रतिष्ठे ! नमः ॥११६॥ १८० कोऽपि वापि कुतोऽपि कस्यचिदहो चेतस्यकस्माज्जनः केनापि प्रविशत्युदुम्बरफलप्राणिक्रमेण क्षणात् । येनास्मिन्नपि पाटिते विघटिते विस्फोटिते त्रोटिते निष्पिष्टे परिगालिते विगलिते निर्याति वा नैव वा ॥११७॥ १८१. रसनाग्रेषु नीचानां हृदयेषु मनीषिणाम् । धीराणां वसति क्रोधः क्रियासु कृतविस्तरः ॥११८॥ १८२. तावद्विभ्यति शत्रवः शुचियशस्तावद्दिशो गाहते । तावज्ज्ञातिजनो न याति विकृति यावच्च कीर्तिः स्थिरा । तावत्संस्तुतचापलापि कमला धत्ते कुलस्त्रीव्रतं यावद्वीरजनोचितेन पुरुषो मानेन न त्यज्यते ॥११९॥ १८३. शुश्रूषस्व गुरून् कुरु प्रियसखीकृत्यं सपत्नीजने भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138