Book Title: SubhashitSangraha Samucchay
Author(s): Nilanjana Shah
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 86
________________ सुभाषितरत्नकोश १२६. यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा । यो यः सत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीप: क्रोधान्धस्तस्य तस्य स्वयमपि जगतामन्तकस्याऽन्तकोऽहम् ॥६३॥ [वेणीसंहार ३.३२] १२७. मन्त्रान्मृत्युजितो जपद्भिरसकृद् ध्यायद्भिरिष्टान् सुरान् शुष्यत्तालुभिराकुलाकुलपदैनिर्वाग्भिरुत्कम्पिभिः । अध्वन्यैरिह जीवितेशमहिषव्याधूम्रधूमाविला लघ्यन्ते करिमांसघस्मरकणत्कौलेयकाः पल्लयः ॥६४॥ १२८. अथेदं रक्षोभिः कनकहरिशा( ण )च्छद्मविधिना तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि । जनस्थाने शून्यं करुणकरुणैरार्यचरितैरपि ग्रावा रोदित्यपि दलयति च ( दलति?) वज्रस्य हृदयम् ॥६५॥ [उत्तररामचरित १.२८] इतो वसति केशवः पुरमितस्तदीयद्विषामितोऽपि शरणागताः शिखरिपत्रिणः शेरते । इतोऽपि वडवानलः सह समस्तसंवर्तकरहो ! विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥६६॥ स्त्रीवर्णकम् । अन्योन्योपमितं युगं निरुपमं वा युग्ममङ्गेषु ते सोऽयं सिक्थकमात्रमास्यमधुनस्तन्वङ्गि ! चन्द्रस्तव । त्वद्वाचां स्वरमातृकां मधुकरः पुंस्कोकिलो घोषयत्यभ्यासस्य किमस्त्यगोचरमिति प्रत्याशया मोहितः ॥६७॥ सरस्यामेतस्यामुदरवलिवीचीविलुलितं यथा लावण्याम्भोजघनपुलिनोल्लङ्घनपरम् । यथा दृश्यश्चायं चलनयनमीनव्यतिकर स्तथा मन्ये मग्नः प्रकटकुचकुम्भः स्मरगजः ॥६८॥ १३२. मृद्वङ्गि ! कठिनौ तन्वि ! पीनौ सुमुखि ! दुर्मुखौ । अत एव बहिर्भूतौ हृदयात्ते पयोधरौ ॥६९॥ १२९. १३०. १३१. र Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138