Book Title: SubhashitSangraha Samucchay
Author(s): Nilanjana Shah
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
६८
२८.
२९.
३०.
३१.
३२.
३३.
३४.
३५.
३६.
३७.
३८.
३९.
४०.
निधानीभूतमात्सर्यमन्तर्नीचस्य तिष्ठति । परश्लाघासु येनाऽस्य दृश्यते मुद्रितं मुखम् ॥२८॥ अकलितपरस्वरूपः स्वकमपि दोषं परस्थितं वेत्ति । नावि स्थितस्तटस्थानचलानपि विचलतो मनुते ॥ २९ ॥ स्नेहेन भूतिदानेन कृतः स्वच्छोऽपि दुर्जनः । दर्पणश्चाऽन्तिके तिष्ठन् करोत्येकमपि द्विधा ॥३०॥ कस्यापि ॥ इति दुर्जनपद्धतिः ।
सुभाषितसंग्रहसमुच्चय
अथ कविकाव्यप्रशंसा
स्तोकाऽपि वन्द्यते लोकैः कस्यापि सुकवेः कृतिः । कलेव हरिणाङ्कस्य स्फुरन्ती नवरेखया ॥ ३१ ॥ वर्णोत्कर्षप्रचारज्ञाः सञ्चरन्ति गृहे गृहे । वार्त्तिकेन्द्राः कवीन्द्राश्च बध्नन्ति विरला रसम् ॥३२॥ कवयः कालिदासाद्याः कवयो वयमप्यमी । पर्वते परमाणौ च पदार्थत्वं व्यवस्थितम् ॥३३॥ को न हर्षवशं याति कृत्वा रत्नावलीं हृदि । त्रिविक्रमपदन्यासैः स्पर्धां के गवि कुर्वते ॥३४॥ तावत्कविविहङ्गानां ध्वनिर्लोके प्रशस्यते । यावन्नो विशति श्रोत्रे मयूरमधुरध्वनिः ॥ ३५ ॥ अपारे संसारे कविरेकः प्रजापतिः । यथाऽस्मै रोचते विश्वं तथेदं परिवर्तते ॥३६॥ यन्नेत्रैस्त्रिभिरीक्षते न गिरिशो नाऽष्टाभिरप्यब्जभूः स्कन्दो द्वादशभिर्न च( ? ) मघवा चक्षुः सहस्त्रेण वा । संभूयापि जगत्त्रयस्य नयनैर्द्रष्टुं न यत् पार्यते
प्रत्याहृत्य दृशो समाहृतधियः पश्यन्ति य( त ? ) त्पण्डिताः ॥३७॥ केचिद्वस्तुनि नो वाचि केचिद्वाचि न वस्तुनि ।
वाचि वस्तुनि चाऽप्यन्ये नाऽन्ये वाचि न वस्तुनि ॥ ३८ ॥
वरं मौनेन नीयन्ते कोकिलैरिव वासराः । यावत्सर्वजनानन्ददायिनी वाक् प्रवर्तते ॥३९॥ न स शब्दो न तद्वाक्यं न स त्यागो न सा कला । जायन्ते यन्न काव्याङ्गमहो भारो गुरुः कवेः ॥४०॥
Jain Education International
For Private & Personal Use Only
सुवण रेखस्य ।
www.jainelibrary.org
Loading... Page Navigation 1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138