Book Title: SubhashitSangraha Samucchay
Author(s): Nilanjana Shah
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
७१.
सुभाषितसंग्रहसमुच्चय ६९. सुवर्णकार ! श्रवणोचितानि वस्तूनि विक्रेतुमिहागतस्त्वम् । कुतोऽपि नाऽश्रावि यदत्र पल्ल्यां पल्लीपतिर्यावदविद्धकर्णः ॥६॥
कयोरपि ॥ इति सामान्यसमासोक्तिपद्धतिः ॥ ७०. वमतु गिरिराघृष्टे गर्जत्वपश्रुति सागरो
दहतु विततज्वालालालो जगन्ति विषानलः । स त विनिहितग्रीवाकाण्डः कडाहपुटाभरे स्वपिति भगवान् कूर्मो निद्राभरालसलोचनः ॥७॥ महिम्ना नागेशं तुलयितुमलं कस्तमखिलं प्रभुध्यानाभ्यासस्थिरपरिकराचार्यकगुरुम् । महीभारोद्धारे क्षमफणभृतो यस्य कमला
पतिः क्रोडे स्थित्वा भुवनभृतिखेदं रहयति ॥८॥ ७२. हे कूर्मराज ! परमं कमलासनस्य
विश्वोपरि स्थितिनिमित्तमसि त्वमेव । नो चेत्त्वयि प्रचलति क्व तलं क्व धात्री
क्वाशागजाः क्व गिरयः क्व सुराधिवासः ॥९॥ ७३. त्वं जातोऽसि चतुष्पथे यदि घनं छन्नोऽसि किं छायया ?
छन्नश्चेत् फलितोऽसि किं ? यदि फलैः पूर्णोऽसि किं सन्नतः ? । हे सद्वक्ष ! सहस्व संप्रति सखे ! शाखाशिखाकर्षण
क्षोभामोटन[भञ्जनानि जनतः स्वैरेव दुचेष्टितैः ॥१०॥ ७४. नदीतीरे शाखिन्नुपचिततरङ्गाग्रशकलै
र्मुहुर्मूले सिक्तः कलयसि दलाडम्बरमिदम् । न चैवं जानीषे सरल ! यदयं लूनधरणिः
सुखस्पर्शच्छन्नो गुरुपतनहेतुव्यतिकरः ॥११॥ ७५ भ्रातश्चन्दन ! किं ब्रवीमि विकटस्फूर्जत्फणाभीषणा
गन्धस्यापि महाविषा: फणभृतो गुप्त्यै यदेते कृताः । दैवात् पुष्प-फलान्वितो यदि भवानत्राऽभविष्यत्तदा
नो जाने किमकल्पयिष्यदधिकं रक्षार्थमस्याऽऽत्मनः ॥१२॥ ७६. स्थानाद् भ्रष्टः पयसि पतितश्चन्दनो वारिराशे
स्तैस्तैर्वेलाव्यतिकरशतैर्वृणितस्तत्र तत्र ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138