SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ७१. सुभाषितसंग्रहसमुच्चय ६९. सुवर्णकार ! श्रवणोचितानि वस्तूनि विक्रेतुमिहागतस्त्वम् । कुतोऽपि नाऽश्रावि यदत्र पल्ल्यां पल्लीपतिर्यावदविद्धकर्णः ॥६॥ कयोरपि ॥ इति सामान्यसमासोक्तिपद्धतिः ॥ ७०. वमतु गिरिराघृष्टे गर्जत्वपश्रुति सागरो दहतु विततज्वालालालो जगन्ति विषानलः । स त विनिहितग्रीवाकाण्डः कडाहपुटाभरे स्वपिति भगवान् कूर्मो निद्राभरालसलोचनः ॥७॥ महिम्ना नागेशं तुलयितुमलं कस्तमखिलं प्रभुध्यानाभ्यासस्थिरपरिकराचार्यकगुरुम् । महीभारोद्धारे क्षमफणभृतो यस्य कमला पतिः क्रोडे स्थित्वा भुवनभृतिखेदं रहयति ॥८॥ ७२. हे कूर्मराज ! परमं कमलासनस्य विश्वोपरि स्थितिनिमित्तमसि त्वमेव । नो चेत्त्वयि प्रचलति क्व तलं क्व धात्री क्वाशागजाः क्व गिरयः क्व सुराधिवासः ॥९॥ ७३. त्वं जातोऽसि चतुष्पथे यदि घनं छन्नोऽसि किं छायया ? छन्नश्चेत् फलितोऽसि किं ? यदि फलैः पूर्णोऽसि किं सन्नतः ? । हे सद्वक्ष ! सहस्व संप्रति सखे ! शाखाशिखाकर्षण क्षोभामोटन[भञ्जनानि जनतः स्वैरेव दुचेष्टितैः ॥१०॥ ७४. नदीतीरे शाखिन्नुपचिततरङ्गाग्रशकलै र्मुहुर्मूले सिक्तः कलयसि दलाडम्बरमिदम् । न चैवं जानीषे सरल ! यदयं लूनधरणिः सुखस्पर्शच्छन्नो गुरुपतनहेतुव्यतिकरः ॥११॥ ७५ भ्रातश्चन्दन ! किं ब्रवीमि विकटस्फूर्जत्फणाभीषणा गन्धस्यापि महाविषा: फणभृतो गुप्त्यै यदेते कृताः । दैवात् पुष्प-फलान्वितो यदि भवानत्राऽभविष्यत्तदा नो जाने किमकल्पयिष्यदधिकं रक्षार्थमस्याऽऽत्मनः ॥१२॥ ७६. स्थानाद् भ्रष्टः पयसि पतितश्चन्दनो वारिराशे स्तैस्तैर्वेलाव्यतिकरशतैर्वृणितस्तत्र तत्र । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy