________________
७७.
सुभाषितरत्नकोश
लग्नः पल्लीवनभुवि गतोऽङ्गारकारस्य हस्तं न्यस्तो वह्नौ निरवधिरहो दैवगत्या विपत्तिः ॥१३॥ न्यग्रोधे फलशालिनि स्फुटरसं किञ्चित् फलं पच्यते बीजान्यङ्करगोचराणि कतिचित् सिध्यन्ति तस्मिन्नपि । एकस्तेष्वपि कश्चिदङ्कवरो बध्नाति तामुन्नति
यामध्वन्यजनः स्वमात[रोमिव क्लान्तिच्छिदे धावति ॥१४॥ ७८. उत्तंसकौतुकरसेन विलासिनीनां लूनानि यस्य न नखैरपि पल्लवानि । उद्यानमण्डनतरो ! सहकार ! स त्वमङ्गारकारकरगोचरतां गतोऽसि
॥१५॥ ७९. यत्पूर्वमीषदपमुद्रदशां गतस्य चञ्चद् द्विरेफकुलजीवितसौरभं ते ।
दूरं विकस्वरविभूतिमतस्तदद्य हा हन्त जातिकुसुम! क्व गतं न जाने ॥१६॥ ८०. मुखे यद्वैरस्यं वपुरपि बहुग्रन्थिनिचितं
न सन्तप्तः कोऽपि क्षणमिव भजेन्मूलमभितः । फलं नैव प्राप्य वितथसरलिम्नश्च भवता
स्तदिक्षो !-नायुक्तंविहितमितरैर्यत्र दलनम् ॥१७॥ ८१. मदोष्मासंतापाद्वनजकरिणां यत्र निवहा
ममज्जुनिःशेषं तटनिकट एवोन्नतकराः । गते दैवाच्छोषं वरसरसि तत्रैव तरला
बकग्रासत्रासाद्विशति शफरी पङ्कमधुना ॥१८॥ ८२. स्तोकाम्भःपरिवर्तितान्तशफरग्रासार्थिनः सर्वतो
लप्स्यन्ते बक-टिट्टिभप्रभृतयस्तल्लेषु साधुस्थितिम् । सद्यः शोषमुपागतेऽद्य सरसि श्रीपद्मपद्माकरे
तस्मिन् पङ्कजिनीविलासरुचयो हंसा: क्व यास्यन्त्यमी ? ॥१९॥ ८३. नालस्य प्रसरो जडेष्वपि कृतावासस्य कोशे रुचि
दण्डे कर्कशता मुखेऽतिमृदुता मित्रे महान् प्रश्रयः । आमूलं गुणसंग्रहव्यसनिता द्वेषश्च दोषाकरे
यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः ॥२०॥ ८४. शीतज्योतिः-सुरतरु-सुधा-कौस्तुभाद्याः पयोधे
यस्मिन्नन्तःकृतवसतयो हन्त नाऽयं स कालः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org