SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ सुभाषितरत्नकोश ६०. नातिनिर्मत्सरा एव कुर्वन्ति च यथोचितम् । कोऽप्येष महतां हन्त गाम्भी[य]नु गुणो गुणः ॥६०॥ येषां मनांसि करुणारसरञ्जितानि येषां वचांसि परदोषविवर्जितानि । येषां धनानि सकलार्थिजनाश्रितानि तेषां कृते वहति कूर्मपतिर्धरित्रीम् ॥६ ॥ आः कष्टं किल तावदेतदपि यद्दौःस्थ्यं जने श्रूयते तत्रापि स्वगृहागतं निजदृशोर्द्वन्द्वेन यद् दृश्यते । अन्यत्तत्पुनरत्र दुःसहतरं यद् दैन(न्य )मालम्ब्यते तस्मात् किन्न कठोर ! हा ! हृदय रे ! द्वेधा त्वया भिद्यते ॥६२॥ ६३. व्रजत व्रजत प्राणा अर्थिनि व्यर्थतां गते । पश्चादपि हि गन्तव्यं व सार्थ : पुनरीदृशः ॥६३॥ इति परमशैवभट्टारकमहापण्डिताचार्यराजगुरुश्रीमन्मुम्मणिदेवविरचिते सरस्वतीसर्वस्वकोशाभिधाने सुभाषितरत्नकोशे धर्माधिकारकः प्रथम बोधकः। अत्राधिकारे सामान्यसमासोक्तिः । ६४. माधुर्यादतिशैत्यतः शुचितया सन्तोषशान्त्या तृषः स्थाने मैत्रमिदं पयः पय इति क्षीरस्य नीरस्य च । तत्राप्यर्णसि वर्णना स्फुरति मे यत्सङ्गतौ वर्धते दुग्धं येन शुचेव चाऽस्य सुहृदः वाथे स्वयं क्षीयते ॥१॥ कस्यापि ६५. को हि तुलामधिरोहति शुचिना दुग्धेन सहजमधुरेण ।। तप्तं विकृति क्षुग्धं(विकृति क्षुब्धं?) केवलमुद्रिति यत्स्नेहम् ॥२॥ ६६. वामन ! फलमत्युच्चात्तरुतो मरुतोपनीतमासाद्य । युक्तं तद्यत्ति(त्तृ)प्यसि दृष्यसि चेत्तत्र हास्यकरी ॥३॥ निरानन्दः कौन्दे मधुनि विधुरो बालबकुले न शाले सालम्बो लवमपि लवङ्गे न रमते । प्रियङ्गौ नासङ्गं रचयति न चूते विचरति स्मरन् लक्ष्मीलीलाकमलमधुपानं मधुकरः ॥४॥ ६८. .... परेषां ..... ॥५॥ ..... ६७. ६८. अवाच्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy