SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ सुभाषितसंग्रहसमुच्चय आशावलम्बोपचिता न कस्य तृष्णालताऽनर्थफलं प्रसूते । दिने दिने लब्धरुचिर्विवस्वान् मीनं च मेषं च वृषं च भुङ्क्ते ॥५०॥ ५१. मनः श(स? क्तुकणोत्तानमणुनैराश्ययन्त्रितम् । आशास्पर्शीरुदुष्पूरमपि ब्रह्माण्डकोटिभिः ॥५१॥ ५२. विद्यावानपि जन्मवानपि तथा युक्तोऽपि चाऽन्यैर्गुणै र्यन्नाप्नोति मन: समीहितफलं दैवस्य सा वाच्यता । एतावत्तु हृदि व्यथां वितनुते यत्कुत्सितैः कर्मभि लक्ष्मी प्राप्य जडोऽप्यसाधुरपि च स्वां योग्यतां मन्यते ॥५२॥ ५३. हन्त चिन्तामणिभ्रान्त्या याचितोऽसि स्तुतोऽसि यत् । तत्सर्वं वृत्तपाषाण ! क्षम्यतामर्थिनो वयम् ॥५३॥ ५४. मा रोदीश्चिरमेहि वत्स ! विफलं दृष्ट्वाऽद्य पुत्रानिमा नायातो भवतेऽपि दास्यति पिता ग्रैवेयकं वाससी । श्रुत्वैवं गृहिणीवचांसि निकटे कुड्यस्य निष्कञ्चनो निःश्वस्याऽश्रुजलप्लवप्लुतमुखः पान्थः पुनः प्रोषितः ॥५४॥ दारिद्याय नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः । जगत्पश्यामि येनाऽहं न मां पश्यति कश्चन ॥५५॥ ५६. गाढतरबद्धमुष्टेः कोशनिषण्णस्य सहजमलिनस्य । कृपणस्य कृपाणस्य च केवलमाकारतो भेदः ॥५६॥ उदारचरितात् त्यागी याचितः कृपणोऽधिकम् । एको दत्ते धनं प्राणानन्यः प्राणांस्ततो धनम् ॥५७॥ शिर: संख्यस्पर्धि ध्वनिरपि पवर्गं मृगयते । तमःक्षुण्णं चक्षुः करचरणसाकम्पतरलम् । उदस्थित्वमूर्ध्वं(?) ध्वनिति च जराजर्जरमुरः स्फुरत्यन्तः कोऽपि द्रविणलवलोभव्यतिकरः ॥५८॥ ५९. .... प्याकारविभ्रमः ॥५९॥ ५९. लेखनस्य लुप्तत्वादवाच्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy