SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ 1४२॥ ४३. ४५. सुभाषितरत्नकोश ४१. जयत्यन्यः स कोऽप्यध्वा भारत्याः खमिवाऽमलः । क्षुण्णोऽपि विबुधैर्बादं विभात्यक्षुण्ण एव यः ॥४१॥ ४२. अनुघुष्टः शब्दैरथ च घटनातः स्फुटतरः पदानामर्थात्मा रमयति न तूत्तानितरसः । यथा दृश्यः किञ्चित्पवनचलचीनांशुकतया कुचाभोगः स्त्रीणां हरति न तथोन्मुद्रितमुखः ॥४२॥ परिच्छिन्नास्वादोऽमृतमधुगुडक्षौद्रपयसां कदाचिच्चाऽभ्यासाद्भजति ननु वैरस्यमधिकम् । प्रियाबिम्बोष्ठे वा चतुरकविकाव्येऽप्यनवधि नवानन्दः कोऽपि स्फुरति तु रसोऽसौ निरुपमः ॥४३॥ ४४. श्रोता यैर्नैव योगीव देवरूपो न यै रिपुः । यैरात्मसदृशो नाऽर्थी किं तैः काव्यैर्बलैर्धनैः ॥४४॥ ददतो युध्यमानस्य पठतः पुलको न चेत् । आत्मनश्च परेषां च धिक् त्यागं पौरुषं वचः ॥४५॥ उदारपुरुषाः ४६. भुङ्क्ते तस्यैव संप्रीतिर्दत्ते तस्येतरस्य वा । इहैव तावद्दानस्य भोगाद् द्विगुणमन्तरम् ॥४६॥ ब्रह्माण्डोदरगोलकं कियदिदं तत्रापि भूगोलकं पृथ्वीमण्डलसंज्ञकं कुपतयस्तत्राप्यमी कोटिशः । तत्रैके गुरुगर्वगद्गदगिरो विश्राणयन्त्यर्थिनां हा हा हन्त वयं तु वज्रघटितास्तानेव याचेमहि ॥४७॥ ४८. दिग्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते सिद्धा साऽपि वदन्त एव हि वयं रोमाञ्चिताः पश्यत । विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो यस्मादाविरभूत्कथाऽद्भुतमिदं यत्रैव चाऽस्तं गतम् ॥४८॥ ४९. अखर्वपर्वगर्तासु विच्छिन्नो यस्य वारिधः । ही स एव मुनेः पाणिरधस्ताद्विन्ध्यभूभृतः ॥४९॥ ४७. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy