SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ६८ २८. २९. ३०. ३१. ३२. ३३. ३४. ३५. ३६. ३७. ३८. ३९. ४०. निधानीभूतमात्सर्यमन्तर्नीचस्य तिष्ठति । परश्लाघासु येनाऽस्य दृश्यते मुद्रितं मुखम् ॥२८॥ अकलितपरस्वरूपः स्वकमपि दोषं परस्थितं वेत्ति । नावि स्थितस्तटस्थानचलानपि विचलतो मनुते ॥ २९ ॥ स्नेहेन भूतिदानेन कृतः स्वच्छोऽपि दुर्जनः । दर्पणश्चाऽन्तिके तिष्ठन् करोत्येकमपि द्विधा ॥३०॥ कस्यापि ॥ इति दुर्जनपद्धतिः । सुभाषितसंग्रहसमुच्चय अथ कविकाव्यप्रशंसा स्तोकाऽपि वन्द्यते लोकैः कस्यापि सुकवेः कृतिः । कलेव हरिणाङ्कस्य स्फुरन्ती नवरेखया ॥ ३१ ॥ वर्णोत्कर्षप्रचारज्ञाः सञ्चरन्ति गृहे गृहे । वार्त्तिकेन्द्राः कवीन्द्राश्च बध्नन्ति विरला रसम् ॥३२॥ कवयः कालिदासाद्याः कवयो वयमप्यमी । पर्वते परमाणौ च पदार्थत्वं व्यवस्थितम् ॥३३॥ को न हर्षवशं याति कृत्वा रत्नावलीं हृदि । त्रिविक्रमपदन्यासैः स्पर्धां के गवि कुर्वते ॥३४॥ तावत्कविविहङ्गानां ध्वनिर्लोके प्रशस्यते । यावन्नो विशति श्रोत्रे मयूरमधुरध्वनिः ॥ ३५ ॥ अपारे संसारे कविरेकः प्रजापतिः । यथाऽस्मै रोचते विश्वं तथेदं परिवर्तते ॥३६॥ यन्नेत्रैस्त्रिभिरीक्षते न गिरिशो नाऽष्टाभिरप्यब्जभूः स्कन्दो द्वादशभिर्न च( ? ) मघवा चक्षुः सहस्त्रेण वा । संभूयापि जगत्त्रयस्य नयनैर्द्रष्टुं न यत् पार्यते प्रत्याहृत्य दृशो समाहृतधियः पश्यन्ति य( त ? ) त्पण्डिताः ॥३७॥ केचिद्वस्तुनि नो वाचि केचिद्वाचि न वस्तुनि । वाचि वस्तुनि चाऽप्यन्ये नाऽन्ये वाचि न वस्तुनि ॥ ३८ ॥ वरं मौनेन नीयन्ते कोकिलैरिव वासराः । यावत्सर्वजनानन्ददायिनी वाक् प्रवर्तते ॥३९॥ न स शब्दो न तद्वाक्यं न स त्यागो न सा कला । जायन्ते यन्न काव्याङ्गमहो भारो गुरुः कवेः ॥४०॥ Jain Education International For Private & Personal Use Only सुवण रेखस्य । www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy