SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Ee २१. सुभाषितरत्नकोश १६. ते वः पान्तु विलोलकालकलितास्तारापतिस्पर्धिन: सन्ध्यावन्दनसंभ्रमे भगवतो धातुः पयोबिन्दवः । यैरूज़ विततैर्वहन्त्युदधयः श्वभ्रावशेषं वपुया॑वृत्तेश्च जगन्ति बुद्दनिभान्युद्यन्ति मज्जन्ति च ॥१६॥ अथ सुजनाः १७. रागिणि नलिने लक्ष्मी दिवसो विदधाति दिनकरप्रभवाम् । अनपेक्षितदोषगुणः परोपकारः सतां व्यसनम् ॥१७॥ कुसुमान्यञ्जलिस्थानि वासयन्ति करद्वयम् । प्रायः सुमनसां वृत्तिर्वाम-दक्षिणयोः समा ॥१८॥ असङ्ख्यैरपि नात्मीयैः स्वल्पैरपि परिस्थितैः । गुणैः सन्तः प्रहृष्यन्ते चित्रमेषां विचेष्टितम् ॥१९॥ यदमी दशन्ति दशनारसनां तत्स्वादुसुखमवाप्नोति । प्रकृतिरियं धवलानां क्लिश्यन्ति यदन्यकार्येषु ॥२०॥ अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् । सदा लोकहितासक्ता रत्नदीपा इवोत्तमाः ॥२१॥ अथ दुर्जनः २२. ऋजुरेष पक्षवानिति काण्डे प्रीतिं खले च मा कार्षीः । प्रायेण त्यक्तगुणः फलेन हृदयं विदारयति ॥२२॥ अनुहरतः खलसुजनावग्रिमपाश्चात्यभागयोः शू(सू?)च्या । एकः कुरुते छिद्रं गुणवानन्यस्तु विदधाति ॥२३॥ अधोमुखमसाधूनामुत्तानं साधुचेतसाम्। शरावमनुकुर्वन्ति प्रीतयः सर्वदेहिनाम् ॥२४॥ समर्पिताः कस्य न तेन दोषा हठाद्गुणा वा न हृताः खलेन । तथापि दोषैर्न विमुच्यतेऽसौ स्पृष्टोऽपि नैकेन गुणेन चित्रम् ॥२५॥ आत्मनाशाय नोन्नत्यै छिद्रेण परिपूर्णता । भूयो भूयो घटीपात्रं निमज्जत् किं न पश्यसि ? ॥२६॥ २७. हृष्यन्ति चारुचरितैः सुजनस्य सत(न्तः) क्षुद्रत्वमाशु पिशुनाः अपि संत्यजन्ति । रत्नं न केवलमलङ्करणाय लोके क्रूरग्रहादिशमकं च भवेत् प्रभावैः ॥२७॥ २३. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy