________________
१०.
सुभाषितसंग्रहसमुच्चय भर्तुर्भूतगणाय गोत्रजरतीनिर्दिष्टमन्त्राक्षरा रक्षत्वद्रिसुता विवाहसमये प्रीता च भीता च वः ॥७॥ अथ विष्णोः किं च्छत्रं किं नु रत्नं तिलकमुत तथा कुण्डलं कौस्तुभो वा चक्रं वा वारिजं वेत्यमरयुवतिभिर्यद्वलिद्वेषिदेहे। ऊर्ध्वं मौलौ ललाटे श्रवसि हदि करे नाभिदेशं च दृष्टं पायात्तद्वोऽर्कबिम्बं स च दनुजरिपुर्वर्धमानः क्रमेण ॥८॥ सेयं द्यौस्तदिदं शशाङ्कदिनकृच्चिह्न नभः सा क्षितिस्तत्पातालतलं त एव गिरयस्तेऽम्भोधरास्ता दिशः । इत्थं नाभिविनिर्गतेन सशिरःकम्पं पुनर्वेधसा यस्याऽन्तश्च बहिश्च दृष्टमखिलं त्रैलोक्यमव्यात् स वः ॥९॥ कुतस्त्वमणुकः, स्वतः, स्वमिति किं, न यत् कस्यचित् किमिच्छसि, पदत्रयं, ननु भुवा किमित्यल्पया । द्विजस्य शमिनो मम त्रिभुवनं तदित्याशयो हरेर्जयति निहृतः प्रकटितश्च वक्रोक्तिभिः ॥१०॥ भ्राम्यन्मन्दरकन्दरोदरदरीव्यावृत्तिभिर्वारिधेः कल्लोलैरलमाकुलं कलयतो लक्ष्म्या मुखाम्भोरुहम् । औत्सुक्यात्तरलाः स्मराद्विकसिता भीत्या समाकुञ्चिता व्रीडान्मन्थरिता मदान्मुकुलिता शौरेर्दृशः पान्तु वः ॥११॥ ब्रह्माण्डच्छत्रदण्डः शतधृतिभुवनाम्भोरुहो नालदण्डः क्षोणीनौकूपदण्डः क्षरदमरसरित्पट्टिकाकेतुदण्डः । ज्योतिश्चक्राक्षदण्डस्त्रिभुवनभवनस्तम्भदण्डोंऽह्रिदण्डः श्रेयस्चैविक्रमस्ते वितरतु विबुधद्वेषिणां कालदण्डः ॥१२॥ हृदयं कौस्तुभोद्भासि विष्णोः पुष्णातु वः श्रियम् । राधाप्रवेशरोधाय दत्तमुद्रमिव श्रिया ॥१३॥ मन्था मन्दरभूधरः फणिपतिर्नेत्रं नवं वासुकिमन्दीरा हरिबाहवो निधिरपामामन्थना कर्करी । यस्येत्थं जनने सुरासुरजने क्लृप्तः प्रपञ्चक्रमः पायाद्वो हिमदीधितिः स भगवान् हैयङ्गवीनायितः ॥१४॥ अवतु वः सवितुस्तुरगावली-स्फुरितमध्यगतारुणनायका । समभिलड़िततुङपयोधरा मरकतैकलतेव नभःश्रियः ॥१५॥
११.
१२.
१३.
१४.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org