Book Title: SubhashitSangraha Samucchay
Author(s): Nilanjana Shah
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 81
________________ ७४ ८५. ८६. ८७. ८८. ८९. ९०. ९१. ९३. ज्वालावत्तैर्भुवनवलयप्लोषबद्धाभिलाषः संप्रत्यस्य स्फुरति हृदये केवलं वाडवाग्निः ॥२१॥ ॥२६॥ पोतायते ॥२७॥ यत्पादाः शिरसा न केन विधृताः पृथ्वीभृतां दैवत - स्तस्मिन्भास्वति राहुणा कवलिते लोकत्रयीचक्षुषि । खद्योतः स्फुरितं तमोभिरुदितं ताराभिरुज्जृम्भितं घूकैरुत्थितमाः ! किमत्र करवै किं किं न कैश्चेष्टितम् ॥२८॥ ९२. तेजोऽन्यदेव नक्षत्र - शशाङ्क- शकलादिषु । उद्घाटितजगत्कोशमन्यदेव वेर्महः ॥ २९ ॥ अविरलगवलमलीमसबलाहकव्यूहपिहितरविबिम्बम् । तदपि न रजनीसदृशं दिनमिति महसामहो ! महिमा ॥३०॥ ८९-९०. लेखनस्य लुप्तत्वादवाच्यम् । ॥२२॥ स्वस्त्यस्तु विद्रुमवनाय नमो मणिभ्यः कल्याणिनी भवतु मौक्तिकशुक्तिमाला । प्राप्तं मया सकलमेव फलं पयोधेर्यद्दारुणैर्जलचरैर्न विदारितोऽस्मि यच्चन्द्रार्धविभूषणः पशुपतिर्यच्च श्रियाऽलङ्क तो विष्णुर्यत् त्रिदिवौकसां पतिरभूदैरावणाधिष्ठितः । प्राप्तं प्रीतिविकासितेक्षणयुगैर्यच्चाऽमरत्वं सुरैस्तत्सर्वं हि परोपकारवसते: सिन्धोः प्रभावाद्भुतम् ॥२३॥ एतस्मिन्पदके प्रधानपदवीन्यासेन वर्णोज्ज्वलं त्वामुत्सार्य सुवृत्तमाप्तविभवो यन्नील एष स्थितः । आस्तत्रैव न किं भवन्नपि भवान् मुक्तामणे ! तत्किल भ्रातः ! संकटशुक्तिकीटकपुटीगर्भे विलीनो भवान् ॥२४॥ केनासीनः सुखमकरुणेनाऽकरादुद्धृतस्त्वं विक्रेतुं वा समभिलषितः केन देशान्तरेऽस्मिन् । यस्मिन्वित्तव्ययभरसहो ग्राहकस्तावदास्तां नास्ति भ्रातर्मरकतमणे ! त्वत्परीक्षाक्षमोऽपि ॥ २५ ॥ सुभाषितसंग्रहसमुच्चय ******** Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138