Book Title: SubhashitSangraha Samucchay
Author(s): Nilanjana Shah
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 80
________________ ७७. सुभाषितरत्नकोश लग्नः पल्लीवनभुवि गतोऽङ्गारकारस्य हस्तं न्यस्तो वह्नौ निरवधिरहो दैवगत्या विपत्तिः ॥१३॥ न्यग्रोधे फलशालिनि स्फुटरसं किञ्चित् फलं पच्यते बीजान्यङ्करगोचराणि कतिचित् सिध्यन्ति तस्मिन्नपि । एकस्तेष्वपि कश्चिदङ्कवरो बध्नाति तामुन्नति यामध्वन्यजनः स्वमात[रोमिव क्लान्तिच्छिदे धावति ॥१४॥ ७८. उत्तंसकौतुकरसेन विलासिनीनां लूनानि यस्य न नखैरपि पल्लवानि । उद्यानमण्डनतरो ! सहकार ! स त्वमङ्गारकारकरगोचरतां गतोऽसि ॥१५॥ ७९. यत्पूर्वमीषदपमुद्रदशां गतस्य चञ्चद् द्विरेफकुलजीवितसौरभं ते । दूरं विकस्वरविभूतिमतस्तदद्य हा हन्त जातिकुसुम! क्व गतं न जाने ॥१६॥ ८०. मुखे यद्वैरस्यं वपुरपि बहुग्रन्थिनिचितं न सन्तप्तः कोऽपि क्षणमिव भजेन्मूलमभितः । फलं नैव प्राप्य वितथसरलिम्नश्च भवता स्तदिक्षो !-नायुक्तंविहितमितरैर्यत्र दलनम् ॥१७॥ ८१. मदोष्मासंतापाद्वनजकरिणां यत्र निवहा ममज्जुनिःशेषं तटनिकट एवोन्नतकराः । गते दैवाच्छोषं वरसरसि तत्रैव तरला बकग्रासत्रासाद्विशति शफरी पङ्कमधुना ॥१८॥ ८२. स्तोकाम्भःपरिवर्तितान्तशफरग्रासार्थिनः सर्वतो लप्स्यन्ते बक-टिट्टिभप्रभृतयस्तल्लेषु साधुस्थितिम् । सद्यः शोषमुपागतेऽद्य सरसि श्रीपद्मपद्माकरे तस्मिन् पङ्कजिनीविलासरुचयो हंसा: क्व यास्यन्त्यमी ? ॥१९॥ ८३. नालस्य प्रसरो जडेष्वपि कृतावासस्य कोशे रुचि दण्डे कर्कशता मुखेऽतिमृदुता मित्रे महान् प्रश्रयः । आमूलं गुणसंग्रहव्यसनिता द्वेषश्च दोषाकरे यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः ॥२०॥ ८४. शीतज्योतिः-सुरतरु-सुधा-कौस्तुभाद्याः पयोधे यस्मिन्नन्तःकृतवसतयो हन्त नाऽयं स कालः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138