Book Title: SubhashitSangraha Samucchay
Author(s): Nilanjana Shah
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
६०
सुभाषितसंग्रहसमुच्चय ४७. रागो बन्धुजने यदेष यदयं द्वेषश्च विद्वेषिणि
श्रेयः सम्पदि यच्च या च विपदि प्रोत्सर्पिणी वेदना । तत्सर्वं विकसद्विवेकवपुषो ज्ञानानलस्येन्धनं
कृत्वोन्मूलय मूलमांसलमपि व्यामोहजाड्यज्वरम् ॥४७॥ ४८. एते निसर्गबलिनो दलयन्ति नित्यं
यद्वैरिणः कृतपदा हृदयं मदीयम् । एतान्निवारय पुरः किमुपेक्षसे मां
भ्रातर्विवेक ! भवतः शरणं गतोऽस्मि ॥४८॥ ४९. विलोक्य व्यालोलं जगति सुहृदां जीवितमनु
क्षणध्वंसाक्रान्तं सह कमलया यौवनमपि । निरातङ्कक्रीडारसरुचिरसारङ्गतनये
न येषामासक्तिर्भवति विपिने तेऽपि कृतिनः ॥४९॥ ५०. प्रीतिः कस्मिन् भवति भवति द्वेषबुद्धिश्च कस्मिन्
किं वा कृत्यं भवति किमु वा वस्तुतःस्यादकृत्यम् । कोऽहं कोऽन्यो जगति यदिह ध्यानरूपो महीयान्
सर्वत्राऽऽत्मा विपुलमतिभिर्वीक्ष्यते निर्विकल्पैः ॥५०॥ ५१. किं वा( ? ) करिष्यत्यहो ! तेषां मायारात्रिस्तमस्विनी । येषां बोधप्रदीपेन मुक्तिमार्गः प्रदर्शितः ॥५१॥
बोधप्रदीपोऽयम् ॥ ५२. संसाराटविमध्वनीनविपुलां भ्राम्यस्त्वमेकाकुलो
धर्मं सार्थपति विना भवसि भो ! दुःखौघपात्रं पुनः । यस्मात् त्रासकरी जनं मृगयते तस्यां जराराक्षसी स्वेच्छं वल्गति जीवजीवनहि ह )रो मृत्युश्च पञ्चाननः ॥५२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138