SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ६० सुभाषितसंग्रहसमुच्चय ४७. रागो बन्धुजने यदेष यदयं द्वेषश्च विद्वेषिणि श्रेयः सम्पदि यच्च या च विपदि प्रोत्सर्पिणी वेदना । तत्सर्वं विकसद्विवेकवपुषो ज्ञानानलस्येन्धनं कृत्वोन्मूलय मूलमांसलमपि व्यामोहजाड्यज्वरम् ॥४७॥ ४८. एते निसर्गबलिनो दलयन्ति नित्यं यद्वैरिणः कृतपदा हृदयं मदीयम् । एतान्निवारय पुरः किमुपेक्षसे मां भ्रातर्विवेक ! भवतः शरणं गतोऽस्मि ॥४८॥ ४९. विलोक्य व्यालोलं जगति सुहृदां जीवितमनु क्षणध्वंसाक्रान्तं सह कमलया यौवनमपि । निरातङ्कक्रीडारसरुचिरसारङ्गतनये न येषामासक्तिर्भवति विपिने तेऽपि कृतिनः ॥४९॥ ५०. प्रीतिः कस्मिन् भवति भवति द्वेषबुद्धिश्च कस्मिन् किं वा कृत्यं भवति किमु वा वस्तुतःस्यादकृत्यम् । कोऽहं कोऽन्यो जगति यदिह ध्यानरूपो महीयान् सर्वत्राऽऽत्मा विपुलमतिभिर्वीक्ष्यते निर्विकल्पैः ॥५०॥ ५१. किं वा( ? ) करिष्यत्यहो ! तेषां मायारात्रिस्तमस्विनी । येषां बोधप्रदीपेन मुक्तिमार्गः प्रदर्शितः ॥५१॥ बोधप्रदीपोऽयम् ॥ ५२. संसाराटविमध्वनीनविपुलां भ्राम्यस्त्वमेकाकुलो धर्मं सार्थपति विना भवसि भो ! दुःखौघपात्रं पुनः । यस्मात् त्रासकरी जनं मृगयते तस्यां जराराक्षसी स्वेच्छं वल्गति जीवजीवनहि ह )रो मृत्युश्च पञ्चाननः ॥५२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy