Book Title: SubhashitSangraha Samucchay
Author(s): Nilanjana Shah
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 61
________________ सुभाषितसंग्रहसमुच्चय चूडोत्तंसितचारुचन्द्रकलिकाचञ्चच्छिखाभासुरो लीलादग्धविलोलकामशलभः श्रेयो दशाग्रे स्फुरन् । अन्तःस्फूर्जदपारमोहतिमिरप्राग्भारमुच्छेदयंश्वेतःसद्मनि योगिनां विजयते बोधप्रदीपो हरः ॥१॥ माद्यन्मित्र-कलत्र-पुत्र-कुतपश्रेणीरणच्छृङ्खलाबन्धध्वस्तगतेर्निरुद्धवपुषः क्रोधादिविद्वेषिभिः । आस्तां ज्ञानसुधारस: किमपरं संसारकारागहक्रूरक्रोडनिवासिनो न सुलभा वार्ताऽपि मोक्षं प्रति ॥२॥ निद्रामिमां प्रचलमोहमयीमपास्य रे रे जनाः ! कुरुत शाश्वतवस्तुकृत्यम् । एते पतन्त्यविरतप्रहरापदेशादायुस्तरोनिबिडमूलभिदः कुठाराः ॥३॥ इत: क्रोधो गृध्रः प्रकटयति पक्षं निजमितः शृगाली तृष्णेयं विवृतवदना धावति पुरः । इत: क्रूरः कामो विचरति पिशाचश्चिरमहो स्मशानं संसारः क इह पतितः स्थास्यति सुखम् ॥४॥ शुभ्रं सद्म सविभ्रमा युवतयः श्वेतातपत्रोज्ज्वला लक्ष्मीरित्यनुभूयते स्थिरमिव स्यूते शुभे कर्मणि । छिन्नेऽस्मिन्नितरामनङ्गकलहक्रीडात्रुटत्तन्तुकं मुक्ताजालमिव प्रयाति झगिति भ्रश्यद्दिशो दिव्यताम् ॥५॥ त्यक्त्वा सङ्गमपारपर्वतगुहागर्भे रहः स्थीयतां रे रे चित्त ! कुटुम्बपालनविधौ को वाऽधिकारस्तव । यस्यैते पुरतः प्रसारितदृशः प्राणप्रियः पश्यतो नीयन्ते यमकिङ्करैः करतलादाच्छिद्य पुत्रादयः ॥६॥ शास्त्रज्ञोऽपि प्रगुणितनयोऽप्याप्तबोधोऽपि बाढं संसारेऽस्मिन् भवति विरलो भाजनं सद्गतीनाम् । येनैतस्मिन्निरयनगरद्वारमुद्धाटयन्ती वामाक्षीणां भ्रमति कुटिला भ्रूलता कुञ्चिकेव ॥७॥ तावदेव कृतिनामपि स्फुरत्येष निर्मलविवेकदीपकः । यावदेव न कुरङ्गचक्षुषा ताड्यते चटुललोचनाञ्चलैः ॥८॥ ७. ८. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138