Book Title: SubhashitSangraha Samucchay
Author(s): Nilanjana Shah
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 64
________________ बोधप्रदीप પ૭ २४. उन्मीलत्रिवलीतरङ्गवलया प्रोत्तुङ्गपीनस्तन द्वन्द्वेनोद्धतचक्रवाकयुगला वक्त्राम्बुजोद्भासिनी । कान्ताकारधरा नदीयमभितः क्रूराऽत्र नाऽपेक्षसे संसारार्णवमज्जनं यदि ततो दूरेण संत्यजताम् ॥२४॥ २५. सुप्तव्यालिनि शैलरन्ध्रकुहरे दैत्यस्त्रियोऽन्वेषिताः खातः सोऽपि निशासु निष्ठरशिलाकूटो निधिश्रद्धया । तृष्णे ! देवि ! तथा त्वयाऽस्मि नटितो जानन्नपि प्रत्यहं किं लोके न ममापि संप्रति यथा दास्येन रुद्धं मुखम् ॥२५॥ २६. वित्तैर्येषां प्रतिपदमियं मण्डिता भूतधात्री निर्जित्यैतद्भुवनवलयं ये विभुत्वं प्रपन्नाः । तेऽप्येतस्मिन् गुरुभवहृदे बुद्बदस्तम्बलीलां धृत्वा धृत्वा सपदि विलयं भूभुजः संप्रयाताः ॥२६॥ २७. क्रीडां करिष्यति कियच्चिरमेष हंसः स्निग्धोल्लसत्कलरवोऽत्र शरीरवाप्याम् । कालारघट्टघटिकावलिपीयमानमायुर्जलं झगिति शोषमुपैति यत्र ॥२७॥ भूपोऽहं नृपवृन्दसेवितपदः प्राज्ञः सुविद्वानहं शूरोऽहं निहतद्विषन् मुनिरहं सम्यक् तपस्वीति च । मिथ्याहंकृतिमोहिताः कृतमदं जल्पन्त्वमी वस्तुतस्तावत्कोऽहमिति प्रगल्भमतयोऽप्यात्माधिबोधे जडाः ॥२८॥ इयं मायारात्रिर्बहलतिमिरा मोहललितैः कृतज्ञानालोकास्तदिह निपुणं जाग्रत जनाः । अलक्ष्यः संहर्तुं ननु तनुभृतां जीवितधना न्ययं कालश्चौरो भ्रमति भुवनान्तः प्रतिगृहम् ॥२९॥ ३०. स्वार्थारम्भप्रणतशिरसां पक्षपातात्सुराणां तृप्तात्मानं करजकुलिशैर्दानवेन्द्रं निहन्तुम् । सिंहीभूतस्त्रिभुवनगुरुः सोऽपि नारायणोऽस्मिन् रागद्वेषप्रणिहतमतेः कस्य न स्यात्पशुत्वम् ॥३०॥ ३१. न्यस्तो हन्त यदेन्द्रजालविदुषो मोहेन बन्धो दृशां दृष्टाः काञ्चनचन्द्रचम्पकविशाकारास्तदा योषितः । २८. २९. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138