Book Title: SubhashitSangraha Samucchay
Author(s): Nilanjana Shah
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
પ૬
१८.
सुभाषितसंग्रहसमुच्चय १६. नानाविधं कृतकदेहभृतां समाज ___ यस्मिन् प्रवेशयति कर्मविपाक एषः ।
आस्तत्र विस्तृतरसे भवनाटकेऽस्मिन्
विष्कम्भको भवति नाम न कोऽपि मृत्योः ॥१६॥ १७. आयुर्नीरतरङ्गभङ्गुरमिति ज्ञात्वा सुखेनाऽऽसितं
तक्ष्मीः स्वप्नविनश्वरीति सततं भोगेषु बद्धा रतिः । अभ्रस्तम्बविडम्बि यौवनमिति प्रेम्णाऽवगूढाः स्त्रियो यैरेवाऽत्र विमुच्यते भवरसात्तैरेव बद्धो जनः ॥१७॥ निबद्धा स्थैर्याशा जलशशिनि कल्लोलचटुले क्षणध्वंसी स्वप्नः सुचिरमविनाशीति कलितः । यदेतस्मिन् वातप्रतिहतपताकाग्रतरले
कृता काये प्रीति: परमपुरुषार्थक्षयकरी ॥१८॥ १९. मा दृश्यतां हृदय ! हन्त तमस्करोऽयमेणीदृशां वदनरूपधरो मृगाङ्कः । आच्छाद्य निर्मलविवेकदिशो विसारि यस्मादिदं स्फुरति मोहमहान्धकारम्
॥१९॥ २०. एताः कस्य न विभ्रमार्पितदृशश्चेतो हरन्त्यङ्गनाः ।
को वाऽस्मिन् पदपीठलोठितनृपे राज्ये निरस्तस्पृहः । किं कुर्वन्तु विवेकिनः पुनरहो नक्तन्दिवोज्जृम्भितैः क्रीडत्कालकरालपाणिपुटकक्रोडे लुठद्विग्रहाः ॥२०॥ दृष्ट्वा दृष्ट्वा प्रफुल्लेक्षणहरिणयुगं वल्गदुद्यानबुद्ध्या नाभीवल्मीकभीमे वपुषि मृगदृशां ये प्रकुर्वन्ति लीलाम् । तेषामुन्निद्रमाद्यन्मदनविषधरनासमूर्छातुराणां
कैते तत्त्वोपदेशाः श्रवणपरिणतिं यान्ति विस्तारिणोऽपि ॥२१॥ २२. विकीर्णहरिचन्दनद्रविणि यत्र लीलालसाः
प्रपेतुरलिचञ्चलाश्चटुलकामिनां दृष्टयः । तदेतदुपरि भ्रमन्निबिडगृध्रजालं जनै
लुंठत्कृमिकलेवरं पिहितनासिकैर्वीक्ष्यते ॥२२॥ २३. यावज्जरा विषधरीव न मां दुनोति व्याघ्रो न यावदुपसर्पति मृत्युनामा ।
संसारघोरगिरिगह्वरवर्तिनोऽन्तस्तावद्विवेक ! मम दर्शय मुक्तिमार्गम् ॥२३॥
२१.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138