Book Title: SubhashitSangraha Samucchay
Author(s): Nilanjana Shah
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
सूक्तावली
६६.
६७.
६८.
६९.
यद्वा चाऽमृतपूर्णकुण्डनिकरं क्षाराम्बुकूपात्तथा दानाद्यर्जितपुण्यराशिमसमं तुच्छैर्निदानैर्नरः ॥ ६५ ॥
इह हि दानफलेन जिनागमे
निगदिता बहवो नरपुङ्गवाः ।
भवसमुद्रमपारमनाकुलाः
किल विलंघ्य गताः परमं पदम् ॥६६॥
श्रेयांसः प्रथमाय तीर्थपतये दानेन लेभे शिवं मोक्षान्तं धनसार्थवाहभवतः श्रीनाभिसूनः (सूनुः) सुखम् । संप्राप्तः कृतपुण्यको वितरणाद्यच्छालिभद्रोऽथवा वन्द्याऽऽऽपि च चन्दना फलमलं तच्चापि किं वर्ण्यते ॥ ६७॥
स्वाधीनं स्वगृहे नयाऽर्जितधनं श्रद्धा च दातुं परा पात्रं निर्मलशीलशालि सदनद्वारे समभ्यागतम् । काले कल्प्यमनल्पवस्तु च पुरः सज्जं तथा गेहिनां सामग्रीयमनन्तपुण्यफलकृद् दानस्य दुष्प्रापिका ॥ ६८ ॥ कपि ज्ञानं दर्शनं क्वापि पात्रे
शीलं कपि कपि चैषां द्विषां वा ( ? ) । एकस्थं चेत् तत्त्रिकं प्राप्यतेऽलं किन्नावाप्तं स्यात्तदा दायकेन ॥६९ ॥
७०. सङ्के तत्रितयं समस्ति समकं यस्मात्ततः सद्धनैः सङ्कं पूजयता जनेन सुधिया श्रद्धाधिकं शक्तितः । किं न स्यात्परिपूजितं यदखिलास्तीर्थाधिपाः संनमत्त्रैलोक्या अपि धर्मदेशनविधौ कुर्वन्ति तस्मै नमः ॥७०॥ ७१. प्रत्याख्यानं साधुशुश्रूषणं च
ज्ञानाभ्यासं चैत्यसाध्वादिकृत्यम् । सप्तक्षेत्र्यां वित्तबीजस्य वापं यात्रां चैत्ये तीर्थयात्रादिकं वा ॥ ७१ ॥
७२. यत्रार्यलोका निवसन्ति देशे स्वदेशधर्मान्वयमार्गशीलाः ।
Jain Education International
For Private & Personal Use Only
39
www.jainelibrary.org
Loading... Page Navigation 1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138