SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ सूक्तावली ६६. ६७. ६८. ६९. यद्वा चाऽमृतपूर्णकुण्डनिकरं क्षाराम्बुकूपात्तथा दानाद्यर्जितपुण्यराशिमसमं तुच्छैर्निदानैर्नरः ॥ ६५ ॥ इह हि दानफलेन जिनागमे निगदिता बहवो नरपुङ्गवाः । भवसमुद्रमपारमनाकुलाः किल विलंघ्य गताः परमं पदम् ॥६६॥ श्रेयांसः प्रथमाय तीर्थपतये दानेन लेभे शिवं मोक्षान्तं धनसार्थवाहभवतः श्रीनाभिसूनः (सूनुः) सुखम् । संप्राप्तः कृतपुण्यको वितरणाद्यच्छालिभद्रोऽथवा वन्द्याऽऽऽपि च चन्दना फलमलं तच्चापि किं वर्ण्यते ॥ ६७॥ स्वाधीनं स्वगृहे नयाऽर्जितधनं श्रद्धा च दातुं परा पात्रं निर्मलशीलशालि सदनद्वारे समभ्यागतम् । काले कल्प्यमनल्पवस्तु च पुरः सज्जं तथा गेहिनां सामग्रीयमनन्तपुण्यफलकृद् दानस्य दुष्प्रापिका ॥ ६८ ॥ कपि ज्ञानं दर्शनं क्वापि पात्रे शीलं कपि कपि चैषां द्विषां वा ( ? ) । एकस्थं चेत् तत्त्रिकं प्राप्यतेऽलं किन्नावाप्तं स्यात्तदा दायकेन ॥६९ ॥ ७०. सङ्के तत्रितयं समस्ति समकं यस्मात्ततः सद्धनैः सङ्कं पूजयता जनेन सुधिया श्रद्धाधिकं शक्तितः । किं न स्यात्परिपूजितं यदखिलास्तीर्थाधिपाः संनमत्त्रैलोक्या अपि धर्मदेशनविधौ कुर्वन्ति तस्मै नमः ॥७०॥ ७१. प्रत्याख्यानं साधुशुश्रूषणं च ज्ञानाभ्यासं चैत्यसाध्वादिकृत्यम् । सप्तक्षेत्र्यां वित्तबीजस्य वापं यात्रां चैत्ये तीर्थयात्रादिकं वा ॥ ७१ ॥ ७२. यत्रार्यलोका निवसन्ति देशे स्वदेशधर्मान्वयमार्गशीलाः । Jain Education International For Private & Personal Use Only 39 www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy