SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ सुभाषितसंग्रहसमुच्चय द्विजाय किल कोऽप्यदान्मुदितचक्रवर्ती क्षितौ समस्त गृहभोजनं प्रतिकुटुम्बकोटीः क्रमात् । द्वितीयपरिवर्तनं पुनरसावपि प्राप्नुया- . अवैव भववर्तिनां भवति मानुषत्वं पुनः ॥१०॥ ११. हृदयविचिन्तितपातिभिरपि पाशैः कश्चनापि रममाणः । द्यूते जीयेतापि हि न भवति मानुष्यमिह भूयः ॥११॥ समस्तजगतीगतं सकलधान्यजातं जनाः समेततिलतण्डुलोपमविमिश्रभावस्थितम् । पृथक् पृथगपि क्षमा गतसहायवृद्धाङ्गना विधातुमिह देहिनो न पुनरेति मानुष्यकम् ॥१२॥ १३. अष्टसहस्त्रस्तम्भैरष्टसहस्राश्रिभिः सभा तस्याः । एकैकाश्रिर्जेया सहस्रमष्टाधिकं वाराः ॥१३॥ इत्येवं सर्वसभां जित्वा राज्यं पणो ग्रहीतव्यः । एकामपि चेद्वारां हारयति पुनर्जयेन्मूलात् ॥१४॥ अपि सम्भवेदिदं खलु विधिनाऽनेनापि कोऽपि तद्राज्यम् । गृह्णीयान्न तु जीवो लभेत मानुष्यमिह भूयः ॥१५॥ महार्णवजलान्तरस्फुटितयानपात्रच्युते गतोऽम्बुनि पुनश्चिरादपि मणिव्रजो लभ्यते । भवेदिति न चाऽङ्गिनां भवसमुद्रमध्येऽभितो मुहुर्विपरिवर्तिनां भवति मानुषत्वं पुनः ॥१६॥ १७. स्वप्ने विधुं मुखसितं शुभदं विलोक्य कश्चित्कथञ्चन नरस्तदवेक्षणाय । भूयः स्वपित्यपि भवेद् बत तस्य लाभो मानुष्यकस्य पुनरेव न दुर्लभस्य ॥१७॥ १८. सव्यापसव्यं भ्रमतोऽतिवेगा च्चक्राष्टकस्याऽरविचालमाप्य । अप्यस्त्रविद्विध्यति कोऽपि राधां न मानुषत्वं पुनरेति जन्तुः ॥१८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy