SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ १ २२. सूक्तावली १९. छन्ने शैवलवल्लरीभिरभितः पातालनिम्ने ह्रदे कूर्मः कश्चन कार्तिकीनिशि नभश्छिद्रेण दृष्ट्वा गतः । पातालात्स सबन्धुरेति सुचिराद्यावत् क्व सा कार्तिकी तच्छिद्रं क्व च तद्वदेव भविनां भूयोऽपि मानुष्यकम् ॥१९॥ २०. सुरेण युगसम्ययोरपरपूर्वरत्नाकरा म्बुमध्यपरिमुक्तयोर्जलतरङ्गभङ्गिभ्रमात् । भवेदपि युतियुगानुगतरन्ध्रनिक्षेपका ऽचिरादपि न चाऽङ्गिनां भवति मानुषत्वं पुनः ॥२०॥ २१. स्तम्भं रत्नमयं महान्तममरः संचूर्ण्य सूक्ष्माणुशः कश्चिन्मेरुशिरःस्थितो नलिकया फूत्कृत्य दिक्षु क्षिपेत् । अप्येषा परमाणुसंहतिरिहाऽनन्तैः परावर्तनैः । स्वां स्तम्भाकृतिमेति नैव भविनां भूयोऽपि मानुष्यकम् ॥२१॥ दुर्लभमिति मानुष्यं चतुरधिकाशीतियोनिलक्षेषु । भ्राम्यति यदेष जीवः प्रकटं कुलकोटिगहनेषु ॥२२॥ २३. अथ भवति मनुष्यः पुण्ययोगेन जन्तु स्तदपि खलु दुरापं क्षेत्रमार्यं यदेतत् । अशुभशुभविचाराचारचातुर्यवर्याः स्वपरहितसमर्थाः सन्ति सन्तो यदन्तः ॥२३॥ २४. तदपि च भरतै-रावत-महाविदेहानि पञ्चधा तानि । प्रत्येकं द्वात्रिंशद् विजयानि पृथग्विदेहेषु ॥२४॥ इति सप्तत्यधिकशतं पञ्चदशसु कर्मभूमिषु ज्ञेयम् । क्षेत्राणां प्रत्येकं षट् खण्डानि च पृथक् तानि ॥२५॥ एतेषु चैकमेव हि मध्यमखण्डं वदन्ति समयज्ञाः । आर्यमनार्यजनानां शेषाणि तु पञ्च पञ्च स्युः ॥२६॥ २७. तत्रापि चाऽऽर्यदेशाः सार्धा खलु पञ्चविंशतिर्येषु । उत्पद्यन्ते द्योतितभुवनत्रितया जिनाधीशाः ॥२७॥ २८. बर्बर-भिल्ल-किरात-तुरुष्काः कुञ्जरकर्ण-तुरङ्गमकर्णाः । एवमनेकविधाः स्युरनार्या धर्मपदश्रुतिवञ्चितकर्णाः ॥२८॥ २६. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy