SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ सुभाषितसंग्रहसमुच्चय यदि कथंचिदिहार्यमुपार्जितोऽर्जितंशुभादपि देशमवाप्नुयात् । तदपि विन्दति नाखिलसद्गुणै रविकलं विकलङ्कमलं कुलम् ॥२९॥ ३०. कुले विशाले विमलेऽपि जाता न जन्तवो जातु सुजातिजातिम् । तिरस्कृताः स्वीकृतदुष्कृतेन प्रायः सुदुष्प्रापतरां लभन्ते ॥३०॥ ३१. अथ जाति[तो?] विशुद्धे लब्धेऽपि हि मानुजे भवे भविनाम् । न भवति पृथुप्रभूता-पायमिहाऽऽयुश्चिरं प्रायः ॥३१॥ ३२. न काऽप्यवस्था न च कोऽपि कालो न कोऽपि देशो न च केऽपि जीवाः । न वस्तु किञ्चित्तदिहाऽस्ति लोके जीयेत यैरेव रिपुः कृतान्तः ॥३२॥ ३३. गर्भे ऽसृक्-क्रव्यपिण्डा निजजनकजनोत्सङ्गिताङ्गाः शिशुत्वे कौमारे सौकुमार्यान्वितधृततनवो यौवनेऽनङ्गतुङ्गाः । वृद्धत्वेऽन्धैडमूकाश्चलदखिलजराजर्जराङ्गाश्च जीवाः क्रुध्यत्कीनाशपाशाश्रितनिबिडगलाः कालमासादयन्ति ॥३३॥ नो देवेन्द्रा न च(चे)न्द्रा न च दनुतनया नो नरेन्द्रा न रुद्रा नो नागेन्द्रा न सूर्या ग्रहगण-भगणा नो न वा राक्षसेन्द्राः । नो वा निःशेषलोकत्रयनतचरणाम्भोरुहास्तीर्थनाथा: स्वायुःपर्यन्तकालोत्तरमपरमलं स्थातुमेकं निमेषम् ॥३४॥ मन्त्रैः सतन्त्रैर्गुरुचित्रयन्त्रैबुद्ध्या ससिद्धयाऽतुलकायशुद्ध्या । मुद्राभिरिन्द्रादिसुरार्चनैर्वा मृत्यु जना जेतुमलं न जातु ॥३५॥ ३६. सन्ध्याराग इव क्षणद्युतिरिव श्रान्तश्वजिह्वेव वा प्रक्लाम्यच्छितिकण्ठकण्ठ इव वा ज्वालेव वाऽर्चिष्मतः । ३४. ३५. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy