SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ सूक्तावली धर्माधिकारः १. २. ७. ८. ९. सूक्तावली ॐ नमो वीतरागाय । मानुष्या - ssर्यक्षेत्र देशा - ऽन्वयाऽऽयुर्नीरोगत्वाऽऽचार्य - बुद्ध्यादिसम्पत् । संसारेऽस्मिन्मानवानां दुरापा सामग्रीयं धर्ममार्गे समग्रा ॥१॥ इह हि भूतलवह्निनभस्वतामसुमतो बत कायममुञ्चतः । व्रजति काल उपार्जितकर्मणां स्थितिवशादपसंख्यमसौख्यतः ॥२॥ अथ कथमपि प्रैति प्राणी वनस्पतिकायके ष्वतिगुरुतराज्ञानच्छन्नस्त्वनन्ततनुत्वगः । गमयति ततोऽनन्तं कालं मलीमसकर्मणां किमिव हि न वा योगो दद्यादशर्म शरीरिणाम् ॥३॥ द्वि-त्रि- चतुःपरिणामपरीतैः स्यात्करणैर्यदि जन्तुरुपेतः । कर्मबलाद्विकलेन्द्रयनामा सोऽपि मनोविकलो न खलु ज्ञः ॥४॥ अथ कथमपि जन्तुर्जातु पञ्चेन्द्रियत्वं यदि जगति लभेत प्राप्तसंमूर्च्छनात्मा । न खलु हृदयशून्यः सोऽपि सम्पद्यतेऽस्मिन् नशुभ-शुभविचारोदारमार्गे समर्थ: ॥५॥ अथ गर्भजपञ्चेन्द्रियभावो भविनो भवे भवे सुचिरात् । तिर्यक्षु सोऽपि विफलः सकलामलबोधविकलेषु ॥६॥ इह तथापि मृगाऽहि-मृगाधिप-द्विप- कपिप्रमुखाः स्थलजन्मनः । मकर - दर्दुर- कूर्म - कुलीरकप्रभृतयः सलिले घनजन्तवः ॥७॥ र-मयूर - शरारयः शुक- कपिञ्जल - वञ्जल-सारसाः । चटक- कौशिक- कोक- बकोटकाद्यपरिमाणविधाश्च विहङ्गमाः ॥८ ॥ पिक - चकोर -‍ इति विविधविभेदे भूरिभेदे तिरश्चा मिह सति बत जाते जन्तवो जायमानाः । सुनिबिडगुरुकर्मच्छिद्रमासाद्य केचित् सकलगतिसमर्थं मानुषत्वं लभन्ते ॥८ ॥ Jain Education International ૨૯ For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy