Book Title: Stotratrayi Saklarhat Stotra Virjin Stotra Mahadeo Stotra
Author(s): Hemchandracharya, Kirtichandravijay, Prabodhchandravijay
Publisher: Bhailalbhai Ambalal Petladwala
View full book text
________________
महादेवस्तोत्रम् . नमोऽस्तु ते महादेव ! महामदविवर्जित ! 1. महालोमविनिर्मुक्त! महागुणसमन्वित ! ॥ ८ ॥ महारागो महाद्वेषो महामोहस्तथैव च । कषायश्च हतो येन महादेवः स उच्यते ॥ ९॥ महाकामो जितो येन महाभयविवर्जितः । महाव्रतोपदेशी च महादेवः स उच्यते ॥ १० ॥ महाक्रोधो महामानो महामाया महामदः । महालोभो हतो येन महादेवः स उच्यते ॥ ११ ॥ महानन्ददये यस्य महाज्ञानी महातपाः । महायोगी महामौनी महादेवः स उच्यते ॥ १२ ।। महावीर्य महाधैर्य महाशीलं महागुणः ।। महामञ्जक्षमा यस्य महादेवः स उच्यते ॥ १३ ॥ स्वयम्भूतं यतो ज्ञानं लोकालोकप्रकाशकम् । अनन्तवीर्यचारित्रं स्वयम्भूः सोऽभिधीयते ॥ १४ ॥ शिवो यस्माजिनः प्रोक्तः शङ्करच प्रकीर्तितः । कायोत्सर्गी च पर्यकी स्त्रीशस्त्रादिविवर्जितः ॥ १५ ॥ साकारोऽपि ह्यनाकारो मूर्तोऽमूर्तस्तथैव च । परमात्मा च बाह्यात्मा सोऽन्तरात्मा तथैव च ॥ १६ ॥ दर्शनज्ञानयोगेन परमात्माऽयमव्ययः। - परा क्षान्तिरहिंसा च परमात्मा स उच्यते ॥ १७ ॥
Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98