SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ महादेवस्तोत्रम् . नमोऽस्तु ते महादेव ! महामदविवर्जित ! 1. महालोमविनिर्मुक्त! महागुणसमन्वित ! ॥ ८ ॥ महारागो महाद्वेषो महामोहस्तथैव च । कषायश्च हतो येन महादेवः स उच्यते ॥ ९॥ महाकामो जितो येन महाभयविवर्जितः । महाव्रतोपदेशी च महादेवः स उच्यते ॥ १० ॥ महाक्रोधो महामानो महामाया महामदः । महालोभो हतो येन महादेवः स उच्यते ॥ ११ ॥ महानन्ददये यस्य महाज्ञानी महातपाः । महायोगी महामौनी महादेवः स उच्यते ॥ १२ ।। महावीर्य महाधैर्य महाशीलं महागुणः ।। महामञ्जक्षमा यस्य महादेवः स उच्यते ॥ १३ ॥ स्वयम्भूतं यतो ज्ञानं लोकालोकप्रकाशकम् । अनन्तवीर्यचारित्रं स्वयम्भूः सोऽभिधीयते ॥ १४ ॥ शिवो यस्माजिनः प्रोक्तः शङ्करच प्रकीर्तितः । कायोत्सर्गी च पर्यकी स्त्रीशस्त्रादिविवर्जितः ॥ १५ ॥ साकारोऽपि ह्यनाकारो मूर्तोऽमूर्तस्तथैव च । परमात्मा च बाह्यात्मा सोऽन्तरात्मा तथैव च ॥ १६ ॥ दर्शनज्ञानयोगेन परमात्माऽयमव्ययः। - परा क्षान्तिरहिंसा च परमात्मा स उच्यते ॥ १७ ॥
SR No.002450
Book TitleStotratrayi Saklarhat Stotra Virjin Stotra Mahadeo Stotra
Original Sutra AuthorHemchandracharya
AuthorKirtichandravijay, Prabodhchandravijay
PublisherBhailalbhai Ambalal Petladwala
Publication Year
Total Pages98
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy