SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ श्रीविजय-नेमि-विज्ञान-कस्तूर-सरिसद्गुरुभ्यो नमः कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितं ॥ श्रीमहादेवस्तोत्रम् ॥ प्रशान्त दर्शनं यस्य सर्वभूताऽभयप्रदम् । . मङ्गल्यं च प्रशस्तं च शिवस्तेन विभाव्यते ॥ १॥ महत्त्वादीश्वरत्वाच्च यो महेश्वरतां गतः। रागद्वेषविनिर्मुक्तं वन्देऽहं तं महेश्वरम् ॥ २ ॥ महाज्ञानं भवेद्यस्य लोकालोकप्रकाशकम् । महादया-दम-ध्यानं महादेवः स उच्यते ॥ ३ ॥ महान्तस्तस्करा ये तु तिष्ठन्तः स्वशरीरके । निर्जिता येन देवेन महादेवः स उच्यते ॥ ४ ॥ रागद्वेषौ महामल्लौ दुर्जयौ येन निर्जितौ । महादेवं तु तं मन्ये शेषा वै नामधारकाः ॥ ५ ॥ शब्दमात्रो महादेवो लौकिकानां मते मतः । शब्दतो गुणतश्चैवाऽर्थतोऽपि जिनशासने ॥ ६ ॥ शक्तितो व्यक्तितश्चैव विज्ञानाल्लक्षणात्तथा । मोहजालं हतं येन महादेवः स उच्यते ॥ ७ ॥
SR No.002450
Book TitleStotratrayi Saklarhat Stotra Virjin Stotra Mahadeo Stotra
Original Sutra AuthorHemchandracharya
AuthorKirtichandravijay, Prabodhchandravijay
PublisherBhailalbhai Ambalal Petladwala
Publication Year
Total Pages98
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy