________________
श्रीवीरजिनस्तोत्रम् ॥
श्रीमते वीरनाथाय सनाथायाऽद्भुत श्रिया । महानन्दसरोराजमरालायाऽहंते नमः ॥१॥ सर्वेषां वेधसामाद्यमादिमं परमेष्ठिनाम् । ... देवाधिदेवं सर्वज्ञ श्रीवीरं प्रणिदध्महे ॥ २ ॥ . कल्याणपादपाऽऽराम श्रुतगङ्गाहिमाचलम् । विश्वाऽम्भोजरविं देवं वन्दे श्रीज्ञातनन्दनम् ॥ ३ ॥ पान्तु वः श्रीमहावीरस्वामिनो देशनागिरः । भव्यानामान्तरमलपक्षालनजलोपमाः ॥ ४ ॥ .. इति कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यविरचितं
श्रीवीरजिनस्तोत्रम् ।