SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ३३ सकलाऽर्हत्स्तोत्रम् सुधासोदरवाग्ज्योत्सानिर्मलीकृतदिङ्मुखः । मृगलक्ष्मा तमःशान्त्यै शान्तिनाथजिनोऽस्तु वः ॥ १८ ॥ श्रीकुन्थुनाथो भगवान् सनाथोऽतिशयर्द्धिभिः । सुरासुरनृनाथानामेकनाथोऽस्तु वः श्रिये ॥ १९ ॥ अरनाथः स भगवांश्चतुर्थाऽरनभोरविः । चतुर्थपुरुषार्थश्रीविलास वितनोतु वः ॥ २० ॥ सुरासुरनराधीशमयूरनववारिदम् । कमद्न्मूलने हस्तिमल्लं मल्लिमभिष्टुमः ॥ २१ ॥ जगन्महामोहनिद्राप्रत्यूषसमयोपमम् । मुनिसुव्रतनाथस्य देशनावचनं स्तुमः ॥ २२ ॥ लुठन्तो नमतां मूनि निर्मलीकारकारणम् । वारिप्लवा इव नमेः पान्तु पादनखांशवः ॥ २३ ॥ यदुवंशसमुद्रेन्दुः कर्मकक्षहुताशनः । अरिष्टनेमिभगवान् भूयाद्वोऽरिष्टनाशनः ॥ २४ ॥ कमठे धरणेन्द्रे च स्वोचित कर्म कुर्वति । प्रभुस्तुल्यमनोवृत्तिः पार्श्वनाथ:श्रियेऽस्तु वः ॥ २५ ॥ कृताऽपराधेऽपि जने कृपामन्थरतारयोः । ईषद्वाष्पायोभद्रं श्रीवीरजिननेत्रयोः ॥ २६ ॥ . इति सकलाऽर्हत्स्तोत्रम् ।
SR No.002450
Book TitleStotratrayi Saklarhat Stotra Virjin Stotra Mahadeo Stotra
Original Sutra AuthorHemchandracharya
AuthorKirtichandravijay, Prabodhchandravijay
PublisherBhailalbhai Ambalal Petladwala
Publication Year
Total Pages98
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy