SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ सकलाऽर्हत्स्तोत्रम् पद्मप्रभप्रभोदेहभासः पुष्णन्तु वः श्रियम् । अन्तरङ्गारिमथने कोपाऽऽटोपादिवाऽरुणाः ॥ ८॥ श्रीसुपार्श्वजिनेन्द्राय महेन्द्रमहितामये। नमश्चतुर्वर्णसङ्घगगनाऽऽभोगभास्वते ॥ ९॥ चन्द्रप्रभप्रभोश्चन्द्रमरीचिनिचयोज्ज्वला । मूर्तिमूर्तसितध्याननिर्मितेव श्रियेऽस्तु वः ।। १० ।। करामलकवद्विश्वं कलयन् केवलश्रिया । अचिन्त्यमाहास्यनिधिः सुविधिर्बोधयेऽस्तु वः ॥ ११ ॥ सत्त्वानां परमानन्दकन्दोद्भेदनवाऽम्बुदः । स्याद्वादाऽमृतनिःस्यन्दी शीतलः पातु वो जिनः ॥ १२ ॥ भवरोगार्तजन्तूनामगदङ्कारदर्शनः । निःश्रेयसश्रीरमणः श्रेयांसः श्रेयसेऽस्तु वः ॥ १३ ॥ विश्वोपकारकीभूततीर्थकृत्कर्मनिर्मितिः । सुरासुरनरैःपूज्यो वासुपूज्यः पुनातु वः ।। १४ ॥ विमलस्वामिनो वाचः कतकक्षोदसोदराः । जयन्ति त्रिजगचेतोजलनैर्मल्यहेतवः ॥ १५ ॥ स्वयम्भूरमणस्पर्धिकरुणारसवारिणा । अनन्तजिदनन्तां वः प्रयच्छतु सुखश्रियम् ॥ १६ ॥ कल्पद्रुमसधर्माणमिष्टप्राप्तौ शरीरिणाम् । चतुर्भधर्मदेष्टारं धर्मनाथमुपास्महे ॥ १७ ॥
SR No.002450
Book TitleStotratrayi Saklarhat Stotra Virjin Stotra Mahadeo Stotra
Original Sutra AuthorHemchandracharya
AuthorKirtichandravijay, Prabodhchandravijay
PublisherBhailalbhai Ambalal Petladwala
Publication Year
Total Pages98
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy