________________
॥ अहम् ॥ श्रीविजय-नेमि-विज्ञान-कस्तूर-सरिसद्गुरुभ्यो नमः । कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितं
॥ सकलाऽर्हत्स्तोत्रम् ॥
-: * :-- सकलाऽहत्प्रतिष्ठानमधिष्ठान शिव श्रियः । भुर्भुवःस्वस्त्रयीशानमार्हन्त्यं प्रणिदध्महे ॥ १ ॥ नामाऽऽकृतिद्रव्यभावैःपुनतस्त्रिजगज्जनम् । क्षेत्रे काले च सर्वस्मिन्नर्हतः समुपास्महे ॥ २ ॥ आदिम पृथिवीनाथमादिमं निष्परिग्रहम् । आदिमं तीर्थनाथं च ऋषभस्वामिनं स्तुमः ॥ ३ ॥ अर्हन्तमजितं विश्वकमलाकरभास्करम् । अम्लानकेवलाऽऽदर्शसङ्क्रान्तजगतं स्तुवे ॥ ४ ॥ विश्वभव्यजनाऽऽरामकुल्यातुल्या जयन्ति ताः । देशनासमये वाचःश्रीसम्भवजगत्पतेः ॥ ५ ॥ अनेकान्तमताऽम्भोधिसमुल्लासनचन्द्रमाः । दद्यादमन्दमानन्दं भगवानभिनन्दनः ॥ ६ ॥ द्युसकिरीटशाणामोतेजिताघिनखावलिः । भगवान् सुमतिस्वामी तनोत्वभिमतानि वः ॥ ७ ॥