SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ महादेवस्तोत्रम् परमात्मा सिद्धिप्राप्तौ बाह्यात्मा तु भवान्तरे । अन्तरात्मा भवेद्देहे इत्येष त्रिविधः शिवः ॥ १८ ॥ सकलो दोषसम्पूर्णो निष्कलो दोषवर्जितः । पञ्चदेहविनिर्मुक्तः सम्प्राप्तः परमं पदम् ॥ १९ ॥ 1: एकमूर्त्तिस्त्रयो भागा ब्रह्मविष्णुमहेश्वराः । त एव च पुनरुक्ता ज्ञानचारित्रदर्शनात् ॥ २० ॥ एकमूर्त्तिस्त्रयो भागा ब्रह्मविष्णुमहेश्वराः । परस्परं विभिन्नानामेकमूर्त्तिः कथ भवेत् ? ॥ २१ ॥ कार्य विष्णुः किया ब्रह्मा कारणं तु महेश्वर ; । कार्यकारणसम्पन्ना एकमूर्तिः कथं भवेत् ॥ २२ ॥ प्रजापतिसुतो ब्रह्मा माता पद्मावती स्मृता । अभिजिज्जन्मनक्षत्रमेकमूर्तिः कथं भवेत् ॥ २३ ॥ वसुदेवसुतो विष्णुर्माता च देवकी स्मृता । रोहिणी जन्मनक्षत्रमेकमूर्त्तिः कथं भवेत् ? ॥ २४ ॥ पेढालस्यं सुतो रुद्रो माता च सत्यकी स्मृता । मूलं च जन्मनक्षत्रमेकमूर्त्तिः कथं भवेत् ? ॥ २५ ॥ रक्तवर्णो भवेद्वमा श्वेतवर्णो महेश्वरः । कृष्णवर्णो भवेद्विष्णुरेकमूर्त्तिः कथं भवेत् ? ॥ २६ ॥ अक्षसूत्री भवेद्ब्रह्मा द्वितीयः शूलधारकः । तृतीयः शङ्खचकाङ्क एकमूर्त्तिः कथं भवेत् ? ॥ २७॥ N
SR No.002450
Book TitleStotratrayi Saklarhat Stotra Virjin Stotra Mahadeo Stotra
Original Sutra AuthorHemchandracharya
AuthorKirtichandravijay, Prabodhchandravijay
PublisherBhailalbhai Ambalal Petladwala
Publication Year
Total Pages98
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy