SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ महादेवस्तोत्रम् चतुर्मुखो भवेद्ब्रह्मा त्रिनेत्रोऽथ महेश्वरः । चतुर्भुजो भवेद्विष्णुरेकमूर्त्तिः कथं भवेत् ? ॥ २८ ॥ मथुरायां जातो ब्रह्मा, राजगृहे महेश्वरः । द्वारावत्यामभूद्विष्णुरेकमूर्त्तिः कथं भवेत् ? ॥ २९ ॥ हंसयानो भवेद्ब्रह्मा वृषयानो महेश्वरः । तार्क्ष्ययानो भवेद्विष्णुरेकमूर्त्तिः कथं भवेत् ? ॥ ३० ॥ पद्महस्तो भवेद्ब्रह्मा शूलपाणि महेश्वरः । चक्रपाणिर्भवेद्विष्णुरेकमूर्त्तिः कथं भवेत् ॥ ३१ ॥ कृते जातो भवेद्ब्रह्म त्रेतायां च महेश्वरः । विष्णुश्च द्वापरे जात एकमूर्त्तिः कथं भवेत् ? ॥ ३२ ॥ ज्ञानं विष्णुः सदा प्रोक्तं ब्रह्मा चारित्रमुच्यते । सम्यक्त्वं तु शिवः प्रोक्तमर्हन्मूर्त्तिस्त्रयात्मिका ॥ ३३ ॥ क्षितिज लपवन हुताशनयजमानाऽऽकाशसोमसूर्याख्याः । इत्येतेऽष्टौ भगवत गीता वीतरागे सुगुणाः ॥ ३४ ॥ क्षितिरित्युच्यते क्षान्तिर्जलं या च प्रसन्नता । निः सङ्गता भवेद्वायुर्हुताशो योग उच्यते ॥ ३५ ॥ यजमानो भवेदात्मा तपोदानदयादिभिः । अलेपकत्वादाकाशसङ्काशः सोऽभिधीयते ॥ ३६ ॥ सौम्यमूर्ति रुचिश्चन्द्रो वीतरागः समीक्ष्यते । ज्ञानप्रकाशकत्वेन स आदित्योऽभिधीयते ॥ ३७ ॥
SR No.002450
Book TitleStotratrayi Saklarhat Stotra Virjin Stotra Mahadeo Stotra
Original Sutra AuthorHemchandracharya
AuthorKirtichandravijay, Prabodhchandravijay
PublisherBhailalbhai Ambalal Petladwala
Publication Year
Total Pages98
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy