SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ महादेवस्तोत्रम् पुण्यपापविनिर्मुक्तो रागद्वेषविवर्जितः । अर्हस्तस्य नमस्कारः कर्त्तव्यः शिवमिच्छता ॥ ३८ ॥ अकारेण भवेद्विष्णू रेफे ब्रह्मा व्यवस्थितः । हकारेण हरः प्रोक्तस्तस्याऽन्ते परमं पदम् ॥ ३९ ॥ अकार आदिधर्मस्य मोक्षस्य च प्रदेशकः स्वरूपं परमज्ञानमकारस्तेन प्रोच्यते ॥ ४० ॥ रूपद्रव्यस्वरूपं वा दृष्टा ज्ञानेन चक्षुषा । दृष्टं लौकमलोकं वा रकारस्तेन प्रोच्यते ॥ ४१ ॥ हता रागाश्च द्वेषाश्च हंता मोहपरीषहाः । हतानि येन कर्माणि हकारस्तेन प्रोच्यते ॥ ४२ ॥ सन्तोषेणाऽभिसम्पूर्णः प्रातिहार्याऽष्टकेन च । ज्ञात्वा पुण्यं च पापं च नकारस्तेन प्रोच्यते ॥ ४३ ॥ भवबीजाक्कुरजनना रागादयः क्षयमुपगता यस्य । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥ ४४ ॥ इति महादेवस्तोत्रं समाप्तम् । *
SR No.002450
Book TitleStotratrayi Saklarhat Stotra Virjin Stotra Mahadeo Stotra
Original Sutra AuthorHemchandracharya
AuthorKirtichandravijay, Prabodhchandravijay
PublisherBhailalbhai Ambalal Petladwala
Publication Year
Total Pages98
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy